सेयमुत्तमपदारोपितनीचयुवत्युक्तेरनुकृतिः पोटोक्तिच्छाया ॥
उत्तमपदस्थानीययुवतिमनुकुर्वाणा उत्तमपदारोपितनीचयुवतिः ॥
मत्तोक्तिच्छाया यथा—
सेयं स्खलन्त्या मत्तोक्तेरनुकृतिर्मत्तोक्तिच्छाया ॥
पि पि प्रियेति । अव्यक्तवृत्तिरूपं स्खलितजल्पितम् ॥
साभिप्रायेति । यद्यपि संपूर्णमेव काव्यं वक्त्रभिप्रायप्रतिच्छन्दकभूतम्, उक्तं च—‘वक्रभिप्रायं सूचयेयुः’ इति, तथापि नास्मिन्नितरसाधारणतया वाक्यार्थगोचरमभिप्रायमावेदयत्येव काव्यसनाथीकरणक्षमवक्रभिप्रायविशेषप्रतिरूपक एकदेशनिवेशो दृश्यते । अत एवाङ्गुलीयादिमुद्रेव मुद्रेत्युच्यते । निरुक्तिमाह—मुत्प्रदायित्वादिति । मुद्युपपदे रातेर्दानकर्मणः के रूपम् । मुद्रैव पदादिप्रकाश्यध्वनिव्यवहारभूमिरन्येषाम् ॥
सास्मिन्निति । पदं प्रातिपदिकं कृत्तद्धितसमासरूपम् । विभक्तिवचनयोः सामान्यविशेषभावेऽपि पृथक्पृथगभिप्रायव्यञ्जकतया निर्देशः । आस्तामित्यादिवचनसंकोचः संवृतिः ॥
तासु पदमुद्रा यथा—