संवृतिमुद्रा यथा—
अत्र ‘कथापि खलु पापानामलमश्रेयसे यतः’, ततः ‘किं तेन वः कीर्तितेन’ इति साभिप्रायसंवृतिकरणादियं संवृतिमुद्रा ॥
विधीति । उक्तिरभिधा । सा द्वयी भावाभावविषयत्वात् । तर्हि गोरपत्यमयं गौरित्यतः को भेद इत्याशङ्क्य विधिद्वारेण वेत्यादि । भावज्ञानं विधिरभावज्ञानं निषेधः । लोके गृहीतव्युत्पत्तिबलेन भावाभावान्यतरसंवित्सरणिमारुह्य काव्यैकगोचरे रसाद्यात्मनि पर्यवस्यन्ती भवत्युक्तिरलंकार इति भावः ॥
सोऽयं भावादिप्रपञ्चेन षोढा विधिः प्रथत इत्याह—
विधेरिति । उपाधिर्विशेषणम् । विध्यधिकारौ शुद्धभावभेदौ । निषेधनियमौ शुद्धप्रतिषेधभेदौ । विकल्पपरिसंख्ये संकीर्णभेदाविति । तत्राप्राप्तप्रापणो विधिः । प्रसक्तप्रतिषेधो निषेधः । क्रियाफलसंबन्धोऽधिकारः । तुल्यकक्षयोरेकबाधेनान्यसंबन्धो विकल्पः । व्यावृत्तिफलको विधिर्नियमः । शेषविधिनिषेधनान्तरीयकौ विशेषनिषेधविधी परिसंख्या ॥
तासु विध्युक्तिर्यथा—
अत्राप्राप्तौ प्रापणवचनं विधिः ॥
अप्राप्तौ प्रापणवचनमिति । अप्रवृत्तप्रवर्तनात्मको हि विधिः कथमितरापेक्षत्वे संगच्छते । अत एवोच्यते—‘विधिरत्यन्तमप्राप्तौ’ इति ॥
निषेधोक्तिर्यथा—