355 श्लिष्टपदत्वेऽपि व्यतिरेकमुखेन गुणवृत्त्या चाभिधानाद्धनुषीव मानुषेऽपि गुणवत्येव महाञ्शब्दो भवतीति वक्रोक्त्या साधर्म्यावगतिः । तदिदमशब्दत्वादिभिः पूर्वाद्भिद्यमानं समं वक्रं च निदर्शनम् ।

ण उण वरेति । गुणो धैर्यादिस्तन्त्री च, वंशः कुलं वेणुश्च, टङ्कारोऽव्यक्तानुकरणं ख्यातिश्च । इतरेतरयोगवदिति । तथाहि—‘त्वन्मुखं पुण्डरीकं च फुल्ले’ इत्यत्र फुल्लं चेतीतरेतरयोगेनैकशेषे एकयोक्त्या फुल्लेति द्वाभ्यां संबध्यते । तथा विनाप्येकशेषं गुणवज्जिएण वंसुप्पण्णे टङ्कार इति युगपदन्वीयन्ते । ननु यथा राजविरुद्धानामित्यत्र शेषेण ऋजुत्वं तथात्रापि भविष्यतीत्यत आह—श्लिष्टपदत्वेऽपीति । धनुषीव मानुषेऽपि महाञ्शब्दो भवतीति विवक्षितम् । न च व्यतिरेकमुखेनोपनयेऽयमर्थः शब्दादवगम्यते, प्रतीयते चार्थ इति युक्तं वक्रत्वम् । ननु व्यतिरेकेणैव कथं न तुल्यवृत्तिता संमतेत्यत आह—गुणवृत्त्या चेति । सत्यमेतत्तथापि द्वयोर्वर्णनीययोर्गुणादिकयोरभेदाध्यवसायो वक्तव्यः । तथा गौणवृत्तिव्यपाश्रयेणैव वक्रत्वम् । तदिदमुक्तं व्यतिरेकमुखेन गुणवृत्त्या चेति ।

व्यतिरेकं विना दृष्टान्तदार्ष्टान्तिकभावाभावाव्द्य132तिरेकाभ्यां तल्लक्षणमाह—

शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोर्द्वयोः ।
भेदाभिधानं भेदश्च व्यतिरेकश्च कथ्यते ॥ ३२ ॥

शब्दोपात्त इति । भेदाभिधानं वैधर्म्यकथनम् । एवं चेत् मेरुसर्षपयोरपितथाभिधानमलंकारः स्यादत उक्तम्—सादृश्ये वस्तुनोरिति । उपमानोपमेययोरित्यर्थः । सादृश्यं द्विधा । शब्दोपात्तं प्रतीतं च । अशब्दोपात्तमपि ध्वननानुमानादिभिरवगम्यत इति न विरोधस्तदिदमुक्तम्—प्रतीते वेति । तदयमर्थः—उद्भूतचमत्कारिसादृश्ययोर्वैरस्योक्तिर्व्यतिरेकः, स्वरूपाख्यस्तु पृथग् भेदो नास्त्येवेत्युक्तम् ॥

विभागं दर्शयति—

स्वजातिव्यत्त्क्युपाधिभ्यामेकोभयभिदा च सः ।
सादृश्याद्वैसादृश्याच्च भित्रः षोढाभिजायते ॥ ३३ ॥

स्वजातीयेति । येन रूपेण वैयतिरेक्यमुपादीयते तद्रूपवन्तं व्यतिरेकप्रति-

  1. द्वाभ्यामिति युक्तं प्रतिभाति ।