357

शब्दोपात्तसादृश्य एकव्यतिरेको यथा—

‘प्रेयानेव वृषस्तवापि सततं भूतिस्तवापि स्थिरा दुर्गाया भवतापि भूघरभुवः सम्यग्गृहीतः करः ।
निर्व्याजं परमेश्वरत्वमियता नो यासि वक्तुं जनै- र्हेलोल्लासितवाहिनीशमथने यत्रो विषदी भवान् ॥ ९२ ॥’

अत्र प्रियवृषत्वादिभिरभिहितसादृश्ययोरुपमानोपमेययोरुपमेयस्यैव यथोक्तसादृश्यविषये विषादित्वं युक्तमित्येकव्यतिरेकोऽयम् ॥

प्रेयानेवेति । वृषो गौर्धर्मश्च । भूतिः सम्पद् भस्म च । दुर्गा गौरी विषमा च । भूधरभूर्गिरिजा पर्वतभूमिश्च । करो हस्तो राजदण्डश्च । वाहिनीशः समुद्रः सेनापतिश्च । विषादी विषभक्षकोऽवसादवांश्च । यद्यप्यत्रानुरूपं सादृश्यं नास्ति तथापि शब्दसादृश्येनाप्युपमा प्रवर्तत एव । यथा—‘सकलङ्कं पुरमेतज्जातं संप्रति सितांशुबिम्बमिव’ इति । अत एवोभयालंकारत्वमुपमायाः ॥

स एव प्रतीयमानसादृश्यो यथा—

‘सकलङ्केन जडेन च साम्यं दोषाकरेण ते कीदृक् ।
अभुजङ्ग समनयनः कथमुपमेयो हरेणासि ॥ ९३ ॥’

अत्र प्रतीयमानसादृश्यस्य पूर्वार्घे चन्द्रोपमानस्य सकलङ्कतादिरुत्तरर्धेन वर्णनीयोपमेयस्याभुजङ्गत्वादिरेकस्यैव भेदकः स्वधर्मोऽभिहितः सोऽयमप्येकव्यतिरेक एव ॥

सकलङ्केनेति । कलङ्कोऽपवादो लाञ्छनं च । जडो मूर्खः शीतलश्च । अभुजङ्गो न वेश्यापतिरविद्यमानसर्पश्च । समनयनो युगनयनः सर्वान् समं नयतीति च । आह्लादकत्वादिकं चन्द्रेणानिरुद्धैश्वर्यादिकं परमेश्वरेण सादृश्यं प्रतीयते ॥

शब्दोपात्तसादृश्ये उभयव्यतिरेको यथा—

‘अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि ।
असावञ्जनसंकाशस्त्वं च चामीकरद्युतिः ॥ ९४ ॥’

अत्र द्वयोरप्यभिधीयमानसादृश्ययोरुभयव्यतिरेकः ॥