365

अत्र श्यामायामात्मद्युतावसितसिचयप्रान्तबुद्धिरतत्त्वे तत्त्वरूपा प्रियाहसितेन च कारणेन यद्बाधिता सैषातत्त्वे तत्त्वरूपा कारणबाधिता भ्रान्तिः ॥

अत्र श्यामायामिति । नात्र पूर्वोदाहरणवच्छब्देन कयाचिदपि वृत्त्यार्थाभावो विषयीकृतः किंतु प्रकारान्तरेणोन्नीयते । तथाहि नायकेनांशुकापहरणलीलायितेऽपि यदिदं राधायाः सिचयावरोधाङ्गचलनभ्रूक्षेपादि मुग्धाङ्गनोचितविभ्रमविरोधि हसितं तत्कारणं बाधस्येति ॥

अतत्त्वरूपा तत्त्वे या सापि त्रैविध्यसिद्धये ।
हानोपादानयोर्हेतुरूपेक्षायाश्च जायते ॥ ३७ ॥

तत्र तत्त्वेऽतत्त्वरूपा हानहेतुर्यथा—

‘सो मुद्धमिओ मिअतह्णिआहिं तह दूमि तुह आसाहिम् ।
जह संभावमई णवि णईण परंमुहो जाओ ॥ १११ ॥’
[स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनस्त्वदाशाभिः ।
यथा सद्भावमयीष्वपि नदीषु पराङ्मुखो जातः ॥]

अत्र पारमार्थिकीष्वपि नदीषु मृगतृष्णाप्रतारितः सन्यन्न मृगः पयः पातुं प्रतिपद्यते प्रत्युत त्यजति तेनेयं तत्त्वेऽप्यतत्त्वरूपा हानहेतुर्भ्रान्तिः ॥

हानं द्विविधम् । प्रवृत्त्यभावो विपरीतश्च प्रयत्नः । द्विधाप्यत्राभिमतमिति व्या- ख्यानेन स्फुटयति—न प्रतिपद्यते प्रत्युत त्यजतीति ॥

तत्त्वेऽतत्त्वरूपोपादानहेतुर्यथा—

‘समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः ॥ ११३ ॥’

अत्राङ्गीकृतलतारूपोर्वशीपरिष्वङ्गसुखनिमीलिताक्षस्य पुरूरवसः शापान्ताविर्भूतसत्यरूपायामपि तस्यां येयं पूवानुभूतेवंविधानेकविधविप्रलम्भसंभावनया नयनयोरनुन्मीलनबुद्धिः सेयं तत्त्वेऽप्यतत्त्वरूपोपादानहेतुर्भ्रान्तिः ॥