तेषु निर्णयान्तस्तत्त्वानुपाती यथा—
अत्र निरूपितलक्षणे वितर्के जटायुरेष इति तत्त्वानुपाती निर्णयान्तो वितर्कः ॥
मैनाकः किमयमिति । किमयमिति काक्वा पूर्वं दोलायमानचित्तस्य नियतकोटिस्पर्शी ज्ञानविशेष उपनीयते स एव तर्कः । एवमन्यत्रापि ॥
स एवातत्त्वानुपाती यथा—
अत्र किमिदं रूपं निर्मातुं यथोक्तः पुराणो मुनिः प्रभवेत्, अतश्चन्द्रादिष्वन्यतमेन प्रजापतिना भवितव्यमित्यतत्त्वानुपातित्वादतत्त्वानुपात्ययं निर्णयान्तो वितर्कः ॥
स एवोभयात्मको यथा—
सोऽयं तत्त्वानुपातित्वादतत्त्वानुपातित्वाच्चोभयात्मा निर्णयान्तो वितर्कः ॥