381

मानसमपि द्विधा । सुखादिविषयमनुभूतार्थविषयं च । तयोः सुस्वादिविषयं यथा—

‘अस्तोकविस्मयमविस्मृतपूर्ववृत्त- मुद्भूतनूतनभयज्वरजर्जरं नः ।
एकक्षणत्रुटितसंघटितप्रमोद- मानन्दशोकशबलत्वमुपैति चेतः ॥ १४७ ॥’

एतन्निगदेनैव व्याख्यातम् ॥

मानसमपि द्विधेति । संयुक्तसमवायनियमितमेकमपरं तु संस्कारनियमितम् । संस्कारलक्षणया हि प्रत्यासत्त्या यथा स्मरणातिरिक्तं प्रत्यभिज्ञानं तथेदमपीति न किंचिदनुपपन्नम् ॥ निगदेनैवेति । यदि विस्मयादीनयं न साक्षात्कृतवांस्तर्हि कथमुद्वेलतामाचक्षीतेत्यर्थः ॥

अनुभूतार्थविषयं यथा—

‘पिहिते वासागारे तमसि च सूचीमुखाग्रसंभेद्ये ।
मयि च निमीलितनयने तथापि कान्तामुखं व्यक्तम् ॥ १४८ ॥’

इदमपि नातिदुर्बोधमिति न व्याख्यातम् ॥

इदमिति । व्यक्तमित्यनेन साक्षात्कारो दर्शितः । नहि स्मरणेन व्यक्तता भवति किंतु आत्मन्येवावतिष्ठते । स्वानुभूतिमाश्रयत इत्यर्थः ॥

स्वानुभूतिभवं द्विधा । मिथ्यात्मकममिथ्यात्मकं च । तयोर्मिथ्यात्मकं यथा—

‘अथ दीर्घतरं तमः प्रवेक्ष्यन्सहसा रुग्णरयः ससंभ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ १४९ ॥’

तदिदमिन्द्रियेषु मनसि चानवतिष्ठमानमात्मन्येवावतिष्ठते ॥

अमिथ्यात्मकं यथा—

‘मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः ।