384

यदा पुनः करणसाधनोऽनुमानशब्दस्तदानुमीयतेऽनेनेत्यनुमानशब्देन यथोक्तं लिङ्गमुच्यते । यदाह—

‘अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते ।
तदभावे च यन्नास्ति तल्लिङ्गमनुमापकम् ॥ १५४ ॥’

अनुमेयेनेति । अनुमेयेन पक्षेण तस्यैव साध्यवत्तयानुमेयत्वात् । यदाह—‘स एव चोभयात्मायं गम्यो गमक इष्यते । प्रसिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥’ इति । तदन्विते साध्यान्विते । प्रसिद्धं प्रकर्षेण सिद्धम् । व्याप्यतयाधिगतम् । तदभावे साध्याभावे । यतोऽनुमापकं ततो लिङ्गम् ॥

तत्पूर्ववति यथा—

‘अइ सहि वक्कुल्लाविरि च्छुहिहिसि गोत्तस्स मत्थए छारम् ।
अच्चंतदत्तदिट्ठेण सामि वलिएण हसिएण ॥ १५५ ॥’
[अयि सखि वक्रालापैश्छादयिष्यसि गोत्रस्य मस्तके भस्म ।
अत्यन्तदत्तदृष्टेन सामि वलितेन हसितेन ॥]

अत्रैवंप्रकारया वक्रोक्त्या एवंविधेन हसितेनोपलक्षितत्वमग्रतो गोत्रं दूषयसीति कारणतो यत्र कार्यानुमानं तदिदं सामग्रीपक्षे पूर्ववदित्युच्यते ॥

पूर्ववतीति । पूर्वं कारणमनुमापकं यस्यास्ति तत्पूर्ववल्लिङ्गं तस्मिन् । ननु मापयितव्ये लिङ्गज्ञानविषयतया पूर्वं कारणमाश्रयतीति पूर्ववत् । सोऽयमर्थः सप्तम्या द्योतितः । कारणत इति । यथाहि वक्र आलापो मुग्धाङ्गनाप्रकृत्यौचित्यागतं हसितं ध्वननशक्त्या विषयतया कान्तिमर्पयति न तथा शब्दाभिलपितं चारित्र्यखण्डनमिति साहित्यमुद्राविदामतिप्रकाशमेव ॥

शेषवति यथा—

‘दीसइ ण चूअमउलं अत्ता ण अ वाइ मलअगन्धवहो ।
एत्तं वसन्तमासो सहि जं उत्कण्ठिअं चेअम् ॥ १५६ ॥’
[दृश्यते न चूतमुकुलमद्य न च वाति मलयगन्धवहः ।
एति वसन्तमासः सखि यदुत्कण्ठितं चेतः ॥]