सदृशादिति । इह मीमांसका वर्णयन्ति । उपमानमपि सादृश्यमसंनिकृष्टेऽर्थे बुद्धिमुत्पादयति । अस्यार्थः । सादृश्यं सादृश्यज्ञानम् । ज्ञायमानसादृश्यमिति यावत् । तदेवोपमानं कुत इत्यत आह । असंनिकृष्टे सदृशान्तररूपेऽर्थे यतो बुद्धिमुत्पादयति तेन भवति सदृशात्सदृशप्रतिपत्तिरुपमानम् । न सदृशादननुभूतज्ञानमुत्पद्यते; अतिप्रसङ्गात् । तेनेदमनुभूतविषयमेव । नैयायिकानां तु अननुभूतविषयमेवोपमानम् । तथाहि—नागरिकेण यदा आरण्यकः पृष्ट आचष्टे ‘यथा गौस्तथा गवयः’ इति । तदा खलु नागरिकस्यातिदेशवाक्यार्थमनुस्मरतो गां च सादृश्यप्रतियोगिनं जानतो यद्गवये गोसादृश्यज्ञानं तदुपमानं प्रमाणं; तेनायं गवयशब्दवाच्य इति संज्ञासंज्ञिसंबन्धज्ञानं पश्चादुपजन्यते सोपमितिरिति । तत्र सदृशाद्बुद्धौ विपरिवर्तमानाद्यत्सदृशज्ञानं सदृशे गवये संज्ञासंज्ञिसंबन्धज्ञानमित्यर्थः । उदाहरणादिकं निगदव्याख्यातम् ॥