394

एकशोऽनुमानपूर्विका यथा—

‘कपोलपुलकेनास्यः सूचितो मदनज्वरः ।
मनो निरन्तरासक्तं सख्यः कथयति प्रिये ॥ १७३ ॥’

अत्र योऽयं कपोलपुलकानुमीयमानो मनोभवज्वरः स मनसः प्रिये निरन्तरासक्तिमन्तरेणानुपपन्न इत्यनुमानपूर्विकेयमर्थापत्तिः ॥

अनेकश उपमानादिपूर्विका यथा—

‘त्वदास्येन्दू समौ दृष्ट्वा तदिदं कल्पयामहे ।
अन्योन्यगामिलावण्यमनयोरेव केवलम् ॥ १७४ ॥’

अत्र त्वदास्येन्दू समौ दृष्ट्वेत्युपमानपूर्वकता अर्थापत्तेः प्रत्यक्षपूर्वता च शब्दत एव प्रतीयते । या च मिथः सादृश्यानुपपत्तिलभ्या लावण्यान्योन्यगामिता सापि तथाविधं विधातारमन्तरेण न संगच्छत इत्यादीहापि पूर्ववद्वाक्यार्थसामर्थ्यतोऽवगन्तव्यम् ॥

एकशोऽभावपूर्वा यथा—

‘एतदास्यं विना हास्यं निवेदयति सुभ्रुवः ।
प्रियापराधदण्डनां मनो भाजनतां गतम् ॥ १७५ ॥’

अत्र सुभ्रुव इत्यनेन विलासवत्याःसमस्तप्रशस्तलक्षणयोगो लक्ष्यते । तथाविधायाश्च वक्रविलासहासस्याभावोऽनुपपद्यमानः शोकव्यतिरिक्तमात्मकारणं कल्पयतीत्यभावपूर्विकेयमर्शपत्तिः ॥

हास्यभावस्यान्यथाप्युपपत्तेः कथमर्थापत्तिरित्यत आह—अत्र सुभ्रुव इति ॥

अनेकशोऽर्थापत्त्यादिपूर्विका यथा—

‘दृष्ट्वा विभ्रमिणीमेतां विद्मो लीलागुरुं स्मरम् ।
स्मरं च मृगशावाक्ष्या मनस्यस्याः कृतास्पदम् ॥ १७६ ॥’

अत्र विभ्रमिणीमिति प्रशंसायां मत्वर्थीयस्तेन विभ्रमाणामुत्कर्षो