प्रध्वंसप्रागभावो यथा—
प्रध्वंसध्वंसो यथा—
वल्लभजनमरणं प्रध्वंसः स नञा निषिध्यते स तु निषेधः प्रागसत्त्वरूप एव । मृतः स चेदिति मरणोत्तरमभावो भवत्प्रध्वंसो भवति स चासंभवन्नपिशब्देन संभाव्यमानः कान्तिकारणं भवतीत्यलंकारकक्षामारोहति ॥
प्रध्वंसप्रागभावप्रध्वंसो यथा—
प्रध्वंसप्रागभावप्रध्वंस इति । मरणेन प्रध्वंसनं तस्याभावः समस्तेन न जातस्याप्यभावो भिन्नेन प्रतिपादितः ॥
प्रध्वंसस्य प्रध्वंसाभावो यथा—
प्रध्वंसस्य प्रध्वंसामाव इति । कथमपीत्यनेन प्रवासे दशम्यवस्था कटाक्षिता तस्यात्ययः प्रध्वंसप्रध्वंसः । पुनः संगममित्यनेन तस्यापि प्रध्वंसः । सुबोधमन्यत् ॥
इतरेतराभावाभावो यथा—
अत्यन्ताभावस्य सामर्थ्याभावस्य च प्रध्वंसाभावो यथा—
एते नातिदुर्बोधा इति न व्याकृताः ॥