329 पासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥' अत्र न विद्यत इत्यत्यन्ताभावमुपन्यस्य कमपीति प्रतिभासत्ताभिधानेन प्रतिषेधः ॥
तेषु विदूरकार्यो यथा—
सोऽयं बाल्य एव नवयौवनकार्यकरणाद्विदूरकार्यो नाम चित्रहेतुः ॥
विदूरकार्य इति । कालान्तरभाव्यवस्थासंपाद्यं प्रागवस्थावत एव कार्यमुपजायमानं यत्रोच्यते स विदूरकार्यस्तच्च कार्यं शक्तिविशेषाधीनमिति बाल्येऽपि प्रभावातिशयदर्शनाद्भुजेनैव रक्षा कृतेति गौणवृत्तिव्यपाश्रयता ॥
सहजो यथा—
अत्र राज्याभिषेकरिपुमण्डलाक्रमणयोर्हेतुहेतुमद्भावेन सत्यपि पौर्वापर्ये क्षिप्रकारित्वात्तुल्यमेव कार्यकारणभावो विवक्षितस्तेन सहजो नामायं चित्रहेतुः ॥
सहजः कार्ये सहोत्पत्तिकतया निबद्धः । कारणशक्तिप्रकर्षात्समकालमिव कार्यं प्रतिभासते, तेन हेतुशक्तिप्रकर्षाभिव्यक्तिरत्र मूलम् । ‘यदग्रे ददति यथा वा कर्तुमीशते’ इति । एवमनन्तरजेऽपि किं कारणं पूर्वमुत कार्यमस्ति स एव व्यङ्ग्यः । युक्तेऽपि कारणगुणानुविधायि कार्यमसदेवारोप्यते न प्रमुक्तेति तदेव विपरीतमिति गौणवृत्त्याश्रयता ॥