अत्र निशुम्भसंभ्रमस्य हेतोरनुत्पादितभ्रुकुट्यादिदारुणचेष्टाद्वारेण भगवतीमुखाम्बुकालुष्यस्य करणे यदसामर्थ्यं तत्र तन्मुखाख्यस्य वस्तुनः स्वभावो निमित्तमिति स्वभावादनुत्पादितकार्योऽयमहेतुः ॥
अत्र निशुम्भेति ॥ भ्रूकुट्यादिदारुणचेष्टाद्वारेणेति । अन्यथा निशुम्भसंभ्रमवशादिति पञ्चमी असंगता स्यादिति भावः ॥
स एव शक्तेर्हानिहेतुवा यथा—
अत्रानुरागवत्त्वतत्पुरः सरत्वयोः समागमहेत्वोः सामर्थ्यविघाते दैवगतिः कारणमिति शक्तेर्हानिहेतुनायमकृतस्वकार्यो नामाऽहेतुः ॥
अनुरागो लौहित्यं प्रीतिश्च । पुरःसरोऽग्रे गमनशीलः संनिधौ स्थितश्च ॥
वस्तुनः स्वभावेन व्याहतो यथा—
अत्र रत्नप्रदीपनिर्वापणे चूर्णमुष्टेरपत्यक्तस्वरूपस्यापि विघाते रत्नप्रदीपाख्यवस्तुस्वभावः कारणमित्ययं वस्तुस्वभावेन व्याहतो नामाऽहेतुभूतः ॥
अमृतसेकजीवितकङ्कालक्तिप्रतिबन्धे को हेतुरत आह—
स एव शक्तेर्हानिहेतुना यथा—