अत्र कोपकषायितेन मनसस्तस्योत्प्लुतिकरणसमर्थस्यापीश्वरकरग्रहणान्मिथ्यापदाभिधीयमानः प्रतीतो व्याघातस्ततोऽयं शक्तेर्हानिहेतुना व्याहतो नामा हेतुभेदः ॥
ईश्वरकरग्रहणाजदिति । ननु कोपकषायितमनस्त्वमुत्पादितकार्यमेव कथमन्यथा कुर्वदीत्युच्यतेऽत आह—मिथ्यापदेति ॥
इह कैश्चित्कारणमाला पृथगलंकार इत्युक्तम्, पूर्वस्योत्तरोत्तरं प्रति हेतुभावोक्तिस्तल्लक्षणम् । स द्विविधोऽभिधीयमानः प्रतीयमानो वा । उभयथापि नाहेतोर्व्यतिरिच्यत इत्याह—
यस्त्विति । यद्यपि प्रथमस्य प्रथमं हेतुभावो निवृत्त एव तथाप्युत्तरस्य प्रथममुखनिरीक्षणप्रवृत्तस्योत्तरं प्रति हेतुभावोऽभिधीयते । न हि स्वतन्त्रस्यैव हेतुभावे कारणमाला भासते ॥
तदिदमेकदेशद्वारा व्यञ्जयन्नाह—
तयोराद्यो यथा—
अत्र जितेन्द्रियत्वादीनामुत्तरोत्तरं प्रति हेतुभूतानामपि संपदुत्पत्तौ पूर्वपूर्वसव्यपेक्षायां समुदितानामेव कारणत्वं साधनादिपदैरभिधीयत इति सोऽयमभिधीयमानहेतुत्वकारणमालेत्यहेतुभेदः ॥