336

लक्षणात्मकहेतुविशेषस्य साधर्म्यादनन्तरं सूक्ष्मं लक्षयति—

प्रतीयमानमिङ्गितलक्ष्यं यथा—

‘वाहित्ता पडिवअणं ण देइ रूसेइ एक्कमेक्कम्मि ।
अज्जा कज्जेण विणा पइप्पमाणे णईकच्छे ॥ ५१ ॥
[व्याहृता प्रतिवचनं न ददाति रुष्यत्येकैकस्मिन् ।
आर्या कार्येण विना प्रदीप्यमाने नदीकच्छे ॥]

अत्र प्रतिवचनादानं परिजनप्रकोपाभ्यां प्रदीप्यमाने नदीकच्छे इति हेतुना प्रत्याय्यमानः संकेतकुड्याङ्गदावोद्भववधूमनस्तापो वाक्यार्थत्वेन लक्षित इत्ययमिङ्गितलक्ष्यः प्रतीयमानः सूक्ष्मभेदः ॥

अत्र प्रतिवचनादनमिति । नहि प्रतिवचनप्रदानाभावमात्रमत्र चमत्कारकारि, तस्मादन्यथापि संभवात्, अतः प्रतिवचनप्रदानाभिप्राया विपरीतचित्तवृत्तिविशेषोन्नायिका समीपदेशापसरणादिलक्षणा क्रिया काचित्प्रतिवचनाप्रदानपदेनाभिमता । न च प्रकोपोऽप्यनुभवरूपतामनासादयन्स्वादनीयतामासादयतीति नूनं तेनापि भ्रूभङ्गादिरूपा क्रियैवाभिसंहितेत्याशयवतोक्तमिङ्गिताभ्यामिति । यद्येवं तद्धि काव्यशोभानिर्वाहात्किमन्येन लक्षिते नेति । नहि यथोक्तप्रतिवचनाद्यदानप्रकोपाभ्यां कश्चिद्विवक्षितार्थलाभ इति भावः ॥

प्रतीयमानमेवाकारलक्ष्यं यथा—

‘सामाइ सामलीए अद्धच्छिप्पलोअमुहसोहा ।
जम्बूदलकअकण्णावअंसे भमिरे हलिअउत्ते ॥ ५२ ॥’
[श्यामायाः श्यामलतया अर्धाक्षिप्रलोक(न)मुखशोभा ।
जम्बूदलकृतकर्णावतंसे भ्रमति हलिकपुत्रे ॥]

अत्रार्धाक्षिप्रलोनमुखश्यामताभ्यामाकारभ्यां जम्बूदलकल्पितावतंस इत्यनेन प्रत्याय्यमानः संकेतगमनभ्रंशसंभवः श्यामाया मतस्तापो लक्ष्यत इत्ययमाकारलक्ष्यः प्रतीयमानः सूक्ष्मभेदः ॥