342

अधिको यथा—

‘एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावद्वा ददृशे स तैः ॥ ६४ ॥’

अत्रैकस्य दाशरथेरनेकसंख्यैर्यातुधानैर्यत्समरकर्म तत्र तैरस्य तावद्वा दृश्यमानत्वेनैकसंख्याविरुद्धमाधिक्यं गम्यत इत्ययमधिकाख्यो विरोधः ॥

विषमं यथा—

‘दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः ।
चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं भवद्यशः ॥ ६५ ॥’

अत्र मलीमसाध्वरधूमसंचयेन यद्यशसः शुक्लीकरणं तद्यद्यादृशादेव जायते तत्तादृगेव भवतीति प्रसिद्धेर्वैषम्यात्परस्परमसङ्गतेरयं विषमाख्यो विरोधः ॥

सामग्र्येकदेशसद्भावमात्रेण कार्यसद्भावे स्थिते विरोधच्छायामूलत्वमिति तद- नन्तरं संभवः प्राप्तावसर इत्याह—

प्रभूतकरणालोकात्स्यादेवमिति संभवः ।
स विधौ वा निषेधे वा द्वये वा न द्वयेऽपि वा ॥ २५ ॥

प्रभूतेति । भूयांसि कारणानि दृष्ट्वा कार्यमुत्पत्स्यते नापि दैवात्कदाचिन्न स्यादिति ज्ञानसंभवः । न चायं संशय एव नहि स्याद्वा नवेति दोलायते । नापि वितर्को व्याप्यारोपस्याभावात् । क्व तर्ह्ययमन्तर्भवति न क्वचित्, ज्ञानान्तरस्येवोच्यमानत्वात्, अनिश्चयरूपतामात्रेण तत्रान्तर्भावेऽतिप्रसङ्गात्, नापि भ्रान्तिर्न्यग्भूतबाधपुरः सरत्वात् । भ्रान्तौ तु सिद्धायां बाधोत्पत्तिरिति वक्ष्यते 'स विधौ वा निषेधे वा' इति । संभवो विषयनियतो विधिनिषेधोभयानुभयरूपश्चतुर्विधो विषयः । अप्रवृत्तप्रवर्तनं द्विरूपम् । प्रयोजकगतं प्रयोज्यगतं च । आद्यं प्रत्युक्त्याख्ये शब्दालंकारे विधिद्वारेणेत्यनेनोक्तम्, द्वितीयं तु भूतभवनलक्षणमिहोच्यते । संप्रसक्तस्याभावो निषेधः । एतेनोभयानुभयरूपौ व्याख्यातौ ॥