346 नयनस्पन्दनं संभाव्यत इति संभवद्वयमत्रेति व्याख्यानेन स्फुटयति—अत्र यथा खार्यामिति ॥
परस्परोपकारकयोरेकस्य विशेषं दृष्ट्वापरस्य विशेषो ज्ञायत इति संभवसाम्यात्त- दनन्तरमन्योन्यलक्षणमाह—
अन्योन्यमिति । विशेषार्पणमुपकारो न चेयं परिवृत्तिः स्थितस्यानपनयनात् दानप्रतिदानाभावाच्च । विशेषस्तु नानारूपस्तद्वाक्यार्थीभूतरसानुगामितया तत्र तत्रोन्नीयते । विभागं दर्शयति—त्रिधेति । अभिधीयमानं विशेषतः शब्देनोपात्तं सामान्यतः शब्देन विषयीकृतं विशेषतस्तु प्रतीयमानमेवेत्युभयात्मकम् । द्वाभ्यामन्यतोऽप्रतीयमानम् । अन्यान्यचूलिकादिलक्षणानि ग्रन्थकार एव स्फुटीकरिष्यति ॥
तेष्वभिधीयमानमन्योन्यमिह यथा—
अत्रान्योन्यशोभाजननेत्यादिनोपकार्योपकारकभावस्य द्वयोरप्यभिहितत्वादभिधीयमानमिदमन्योन्यम् ॥
कण्ठस्येति । बन्धुरो नम्रः । निस्तलो वर्तुलः ॥
प्रतीयमानं यथा—