347

अत्र पथिकप्रपापालिकयोर्मिथोऽनुरागे यदेकस्य विरलाङ्गुलिना करेण पानीयपानमन्यस्याः सुतरां वारिधारातनूकरणं तेन परस्परमुपकार्योपकारकभावात्प्रतीयमानमिदमन्योन्यम् ॥

अत्र पथिकेति । मिथोऽनुराग इत्यनेन परस्परानुरागसंवर्धनमेवात्र विशेषार्पणमिति मतम् । तथा हि करस्य विरलाङ्गुलिकरणे कथमहमेतां चिराय पश्यामीति प्रपापालिकाभिप्राय एव वर्धितो भवति । एवमपि वारिधारातनूकरणे बोद्धव्यम् । न चायमेवंविधोऽर्थः केनापि शब्देनाभिहित इति भवति प्रतीयमानता वक्तृप्रतिपाद्यादिविशेषपर्यालोचनेनैव ध्वननमुन्मिषति ॥

प्रतीयमानाभिघीयमानं यथा—

‘गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को ।
अणुअम्पाणिद्दोसं तेण वि सा गाढमुअऊढा ॥ ७४ ॥’
[गोदाविषमावतारच्छलेन आत्मा उरसि अस्य मुक्तः ।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा ॥]

अत्र गोदावरीविषमावतारव्याजेन तया तस्योरसि आत्मा क्षिप्तस्तेनाप्यनुकम्पा निर्दोषा सा गाढमुपगूढेत्यभिधीयमानः परस्परमनुरागादुपकार्योपकारकभावः प्रतीयत इत्युभयात्मकमिदमन्योन्यम् ॥

अत्र गोदावरीति । पूर्ववत्प्रतीयमानोऽपि परस्परमुपकारस्थलेनानुकम्पानिर्दोषशब्दाभ्यामभिधया स्पृश्यत इत्युभयरूपम् । न च शब्दोपात्ते किं ध्वननेनेति वाच्यम् । भिन्नविषयत्वात् ॥

अन्योन्यचूडिका यथा—

‘शशिना च निशा निशया च शशी शशिना निशया च यथा गगनम् ।
भवता च सभा सभया च भवान् सभया भवता च तथा भुवनम् ॥ ७५ ॥’

अत्र निशाशशिनोः सभाभवतोश्च परस्परमुपकार्योपकारकभावे वर्तमानयोर्यदिदं गगनं जगती च प्रसिद्धयोरुपकारकत्वचूडिकेवोपर्युपरि लभ्यते सेयमन्योन्यचूडिका ।