348

अत्र निशाशशिनोरिति । चूडिका शिखा । सा यथा शरीरतदवयवेभ्यो भिन्नैवोपलक्ष्यते तथात्रापि निशाशशिनोः सभाभवतोः परस्परमुपकारकत्वमभिसंधाय द्वयोर्द्वयोर्गगनजगती प्रत्युपकारकत्वमन्यदेवाभिधीयते । न चैतावतैव विशेषेण पृथग्भावोऽन्योन्यालंकारकवलीकृतस्यैव तस्य संभवात् ॥

अन्योन्यभ्रान्तिर्यथा—

‘जम्बूनां कुसुमोत्करे नवमधुन्यारब्धपानोत्सवाः कीराः पक्वफलाशया मधुकरीश्चुम्बन्ति मुञ्चन्ति च ।
‘एतेषामपि नीलकिंशुकदलैरेभिः समानत्विषां पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥ ७६ ॥’

अत्र जम्बूकुसुमकुञ्जस्थितमधुकरीषु शुकशकुन्तानां या पक्वजम्बूफलभ्रान्तिर्या च मधुकरीणां शुकचञ्चुषु किंशुककुसुमभ्रान्तिः सेयमन्योन्यभ्रान्तिरन्योन्यस्मादपृथगेव ॥

अत्र जम्बूकुसुमेति । न हि तैमिरिककेशप्रत्ययवद्भ्रान्तेरलंकारतापि तद्भूतसादृश्यमूलाया एव । तथा च चमत्कारिवस्त्वन्तरोपमापर्यवसायित्वमिति भ्रान्तिसंसर्ग एव विशेषार्पण उपकारः । अन्योन्यवचनेन परस्परगामिता तस्य तेनैव दर्शितेत्यन्योन्यलक्षणाश्लेषात्कथं पृथग्भवतीति । एतेनान्योन्यैकता व्याख्याता ॥

अन्योन्यात्मकता यथा—

‘प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परस्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥ ७७ ॥’

अत्र श्यामपाण्डुतयोः परस्परव्यतिरेकेणैकवर्णकरणादन्योन्यमेकता नाम भ्रान्तिभेदोऽन्योन्यात्पृथगेव ॥

परस्परनिरूप्यतासाम्यात्क्रमप्राप्तां परिवृत्तिं निरूपयति—

व्यत्ययो वस्तुनो यस्तु यो वा विनिमयो मिथः ।
परिवृत्तिरिहोक्ता सा काव्यालंकारलक्षणे ॥ २९ ॥