अपह्नुतिरिति । किंचित्प्रसिद्धं धर्मिणं धर्मं वापह्नुत्यापलप्यान्यस्यार्थंस्य प्रसिद्धस्य धर्मादेर्दर्शनं प्रकटनमपह्नुतिः । न चास्या आक्षेपादभेद इति वाच्यम् । तत्र हि प्रतिषेधमात्रमर्थोऽत्र तु प्रतिषेधपूर्वकमन्यार्थकथनमिति भेदः । औपम्यमुपमा तद्वतीति वाच्येऽभिधीयमाने । अपह्नोतव्यवस्तुन्यपह्नुतिविषयपदार्थे ॥