403 वति । एवमुष्ट्रक्रोशीखरनादीत्येतयोरपि द्रष्टव्यम् । सेयमुपमेयार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभाक्तिः ॥

प्रत्यय इति । प्रत्ययार्थानां भेदादित्यर्थः । अस्फुटत्वेनाह—उदाहरणमिति । रूपव्यत्त्क्यै स्वरूपज्ञानाय । हंस इत्यादि । हे वाग्मिनि, प्रशस्तं वचनं यस्याः । यदि त्वं वदसि तदा हंसो ध्वाङ्क्षविरावी काक इव विरौति, कोकिल उष्ट्रक्रोशी उष्ट्र इव क्रुश्यति शब्दायते, मयूरः खरनादी गर्दभ इव नदति । ‘ध्वाङ्क्षात्मघोषपरमृद्बलिभुग्वायसा अपि ।’ इत्यमरः । ‘रासभो गर्दभः खरः’ इति च । इह ध्वाङ्क्ष इव विरौतीत्यादौ ‘कर्तर्युपमाने ३।२।७९’ इति णिनिप्रत्ययः उपमान उपपदे कर्तरि विहित उपमेयस्यार्थे भवति सामानाधिकरण्यानुरोधात् ॥

प्रत्ययस्योपमानार्थे यथा—

‘पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता ।
चक्रदेशीयजघना सा स्वर्गेऽपि न दृश्यते ॥ ६ ॥’

अत्र पूर्णेन्दुरिव पूर्णेन्दुरित्यादिकयोपचारवृत्त्या यद्यपि पूर्णेन्दुप्रभृतय उपमानशब्दा अप्युपमेयेषु वदनादिषु वर्तन्ते, तेभ्यश्च यद्यपि स्वार्थ एव स्वार्थिकाः कल्पबादयो भवन्ति, तथापि ते शब्दशक्तिस्वाभाव्याद्गुणभूतमुपमानार्थमात्रं ब्रुवते यथा शुक्लादिभ्यस्तरबादयः । तथा ह्ययं चं शुक्लोऽयमनयोः शुक्लतर इत्युक्ते शौक्ल्यस्यैव प्रकर्षो गम्यते न शौक्ल्यवतः । सेयमुपमानार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः ॥

पूर्णेत्यादि । सा स्वप्नेऽपि न दृश्यते । कीदृशी । पूर्णेन्दोरीषदसमाप्तं वदनं यस्याः सा । मृणाल्या ईषदसमाप्ता दोर्लता यस्याः सा । चक्रादीषदसमाप्तं जघनं यस्याः सा । इह कल्पेत्यादावीषदसमाप्तौ ‘ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ५।३।६७’ इति कल्पबादयः । इह पूर्णेन्द्वादय उपचारेणोपमेयवृत्तयस्तत्समभिव्याप्तकल्पबादिना स्वार्थिकप्रत्ययेन चोपमानार्थातिशय एवाभिधीयत इति प्रत्ययस्योपमानार्थता । इदमेवाह—शब्देति । गुणभूतमिति । अतिशयस्य प्रत्ययार्थत्वेन तन्निरूपकत्वमेव गुणत्वमित्यर्थः ॥