455 भवता तत्र तयोः केशिकंसयोर्मध्ये कः पूर्वं हत इति । सिद्धौ च तौ युवानौ चेति सिद्धयुवानौ । केशी असुरभेदः । कंसोऽप्यसुरभेदः । अत्र विष्णोस्तद्धर्माणां च चक्रधरत्वादीनामारोपः स्फुट एव ॥

धर्मिण एवाध्यासो यथा—

‘प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्यान्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि ।
सेतुं बध्नाति कस्मात्पुनरयमखिलद्वीपनाथानुयातस्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥ ८९ ॥’

अत्र प्राप्तश्रीरेष कस्मादित्यादिभिर्मन्थखेदादिधर्माणां निवर्तितत्वात् प्राप्तश्रीरित्यादीनां च श्लेषेणैवाभिधानात् त्वयीति वर्णनीयपदे विष्णुस्वरूपस्य धर्मिण एवाध्यासात् तद्धर्माणां चानध्यासादयं धर्म्यध्यासरूपः समाधिः ॥

प्राप्तेत्यादि । हे रामदेव, समुद्रस्य कम्प आभाति । कीदृशस्य । स्वव्याघाते सति इति वितर्कान् दधत इव । एष प्राप्तलक्ष्मीः कोऽपि कस्मात्पुनरपि मद्विषये मन्थेन मन्थनदण्डेन खेदं विदघ्यात्कुर्यात् । अनलसमनस आलस्यहीनस्यास्य निद्रामप्यपूर्वां नैव संभावयामि । अखिलद्वीपनाथो रावणस्तमनुलक्ष्यीकृत्य यातः प्रयातः पुनरयं कस्माद्धेतोः सेतुबन्धं बध्नाति । मथ्यतेऽनेनेति मन्थः । करणे 'हलश्च ३।३।१२’ इति घञ् । अत्र प्राप्तश्रीरित्यादिश्लिष्टपदैर्धर्भिण एव विष्णुरूपस्यारोपो न तु तद्धर्माणामसुरघातकत्वादीनाम् ॥

समाधिमेलितयोरभेदमाह—

समाधिमेव मन्यन्ते 158मे(मी)लितं तदपि द्विधा ।
धर्माणामेव चाध्यासे धर्मिणां वान्यवस्तुनि ॥ ४५ ॥

समाधिरेव मेलितमुभयत्रापि धर्माध्यासात् ॥

  1. १. ‘आधारपुस्तकद्वये टीकापुस्तके च मेलितमिति पाठः समुपलभ्यते । परं काव्यप्रकाशादिषु तथा सरस्वतीकण्ठाभरणात्प्राचीने रुद्रटविरचिते काव्यालंकारेऽपि 'मीलितम्’ इत्येव वरीवर्तीति तदनुरोधादत्रापि ‘मीलितं, ‘मिलितं’ वा युक्तं प्रतिभाति.