अत्र देहादयो यथोक्तक्रियावन्तो जन्तुवधक्रियायां निबद्धा दिवसादिभिरुपमेया दिवसावसानक्रियायां मेलितास्तदेतत् गुणक्रियावतां 457 द्रव्याणां प्रधानक्रियाध्यारोपे धर्मिधर्माध्यासे मेलितं नाम समाधेरेव भेदो भवति ।