464

चित्रा यथा—

‘कमलमनम्भसि कमले कुवलये तानि च कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ १०१ ॥’

अत्राध्यासः पूर्ववद्वैचित्र्यं च निगदेनैव व्याख्यातम् । सेयमनन्योक्तिः समासोक्तिरेवानेकाध्यासवैचित्र्याच्चित्रेत्युच्यते ॥

कमलमित्यादि । अनम्भसि जलशून्ये देशे कमलमस्ति । कमले पुनः कुवलये नीलनलिनद्वयम्, तानि च कमलकुवलयानि कनकलतिकायां सुवर्णलतायाम्, सा च कनकलतिका सुकुमारा कोमला सती सुभगा रम्येत्यनेन प्रकारेण केयमुत्पातपरम्परारिष्टपङ्क्तिः । ‘उत्पातोऽरिष्टमित्यपि’ इत्यमरः । पूर्ववदिति । कस्याश्चिन्मुखादौ कमलाद्यारोपः, विचित्रता च कमलादौ कुवलयाद्यभिधानेनैवोक्ता तस्या एवाभिधानादनन्यतयोक्तिः ॥

उभयोक्तिर्यथा—

‘लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥ १०२ ॥’

अत्रापूर्वेयं लावण्यसिन्धुरित्यन्योक्तिः, यत्रोत्पलानि शशिना सह संप्लवन्त इत्यादिरनन्योक्तिः, सेयमुभययोगादुभयोक्तिरपदिश्यते । उपलक्षणं चैतत् । तेनान्यापि योपमानोपमेयविषये संक्षेपोक्तिः सापि समासोक्तिरेव भवति ।

लावण्येत्यादि । अत्र देशेऽपरैवापूर्वैव केयं लावण्यसिन्धुः सौकुमार्यनदी । यत्र चन्द्रेण सह पद्मानि संप्लवन्ते संमिलितानि भवन्ति । यत्र कुम्भिकुम्भतटी उन्मज्जति उत्थिता भवति । यत्रापरेऽन्ये कदलीप्रकाण्डबिसदण्डाः सन्ति । 'सिन्धुरब्धौ पुमान्नद्यां स्त्रियाम्’ इति मेदिनीकारः । ‘तीरदेशे तटी मता’ इति च । अत्र सिंधूक्त्यान्योक्तिता, यत्रेत्यादिना सिन्धुरेवोक्तेत्यनन्योक्तिता । अन्यानन्यातिरिक्तसमासोक्तिं संगृह्णाति—उपलक्षणमिति ॥