इन्दुरित्यादि । सीतायाः पुरतोऽग्रेऽञ्जनेन कज्जलेन लिप्त इव चन्द्रः । हरिणीनां दृष्टिर्जडितैव जडीभूतैव । प्रवालदलं विम्लानलौहित्यमिव । कलकोकिलवधूकण्ठेषु पारुष्यमतिक्रमवचन मिव प्रस्तुतमुपक्रान्तम् । हन्त हर्षे विषादे वा । शिखिनां मयूराणां बर्हाश्च सगर्हा इव जाताः । ‘पारुष्यमतिवादः स्यात्’ इत्यमरः । अत्र सीतापदेन मुखाद्यवयवसमूह उक्तस्तदग्रे उपमानानां तत्तद्दृशा उत्प्रेक्षाभिधानादनुक्ता466 न्यपि तदुपमेयानि मुखादीनि ज्ञायन्त इत्युपमानोपमेयविषये संक्षेपोक्तिरियम् । समाध्युक्तिसमासोक्त्योरभेदं मन्वानो भेदकं पृच्छति—क इति । उत्तरम्—यत्रेति । यत्र प्रकरणपरिप्राप्ते विशेष्येऽप्रकरणपरिप्राप्तधर्माध्यासः सा समाध्युक्तिः । [यथा— ] असहमानेव क्लाम्यतीत्यादि । अत्र प्रियतमप्रत्यक्षदूषणाध्यारोपोऽप्राकरणिकः । यत्राप्रस्तुते प्रस्तुतधर्माध्यासः सा समासोक्तिः । यथा—पिबन्मधु यथाकाममिति । अत्र भ्रमरेऽप्रकृते प्रकृतस्य कामिनोऽध्यासः तर्हि धर्म्यध्यासतुल्यतैवास्येत्याह—नन्विति । प्राकरणिकाप्राकरणिकत्वाभ्यामेव विशेषस्तयोरिति धर्म्यध्यासेऽपि न दोष इत्याह—नेति । स त्वं तत्त्वमित्यादौ धर्मिधर्मयोरध्यासः, अनाकाश इत्यादौ धर्मिण एवाध्यास इति भेद इत्यर्थः । स त्वं तत्त्वमित्यादौ मनसा, अनाकाश इत्यादौ च वचनेनाध्यासः ॥ इति समासोक्त्यलंकारनिरूपणम् ॥