अत्राङ्गुलीभिः केशेषु गृहीत्वा प्रियामुखं चुम्ब्यते सा च लोचने निमीलयतीति प्रायोवादः । तत्र मुखचुम्बनादिक्रिया प्रधानमङ्गिभूता प्रतीयते, केशग्रहणाक्षिनिमीलने चाङ्गभूतेऽप्रधाने । तत्राङ्गिभूतायाः क्रियाया उत्प्रेक्षणेनावयवभूता क्रियोत्प्रेक्षिता भवति । यथा हि ‘कुङ्मली कृतसरोजलोचनम्’ इत्यत्र नोत्प्रेक्षापदम्, एवं ‘अङ्गुलीमरीचिभिस्तिमिरकेशसंचयं संनिगृह्य’ इत्यत्रापि तन्न प्राप्नोति; मरीच्यङ्गुलिसंनिगृहीततिमिरकेशसंचयमित्येवं वा वक्तव्यं भवति । तत्र योऽयमवयवक्रियायामप्यन्यपदार्थोक्तद्वितीयावयवक्रियाविलक्षण इव प्रयोगेण पृथक्पदतया वाक्यकल्पः स इवास्यापि व्याख्यानपरत्वेनाप्यनुयोज्यमानः कविभिरुत्प्रेक्षावयव इत्युच्यते । अन्ये पुनर्यत्र प्रधानक्रिया नोत्प्रेक्ष्यते, अवयवक्रिया तूत्प्रेक्ष्यते तमुत्प्रेक्षावयवं वर्णयन्ति ।