णेत्यादि । ‘न मुञ्चन्ति दीर्घश्वासं न रुदन्ति न भवन्ति विरहकृशाः । धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम् ॥’ नायिकां नायकविशेषवतीं दृष्ट्वा तत्सखी नायकमुपगम्य तस्या अनुरागं दशां चाह—न मुञ्चतीति । हे बहुवल्लभ, ता नाथिका धन्या दीर्घश्वासं विरहजं न त्यजन्ति, न रूदन्ति, विरहकृशाश्च न 474 भवन्ति । यासां त्वं वल्लभो नासि । अत्र धन्या इत्यादिना अनुरागिण्याः साक्षात्स्तुतिरभिहिता तस्या एव कामसिद्धिबाधिका ॥