476

अत्र यमादयः पञ्च भवन्तो लोकपाला इत्यनुक्तमपि तुल्यवस्तुयोगितयैव स्तुत्यर्थमेषां मिथः सादृश्यं प्रतीयते; सेयं प्रतीयमानतुल्यगुणत्वे स्तुत्यर्था तुल्ययोगिता ॥

यम इत्यादि । यमादयो भवन्तोऽनन्यविषयामनन्यगामिनीं लोकपाल इत्यनेनाकारेण श्रुतिं ख्यातिं बिभ्रति धारयन्ति । सहस्राक्ष इन्द्रः । ‘श्रुतिः ख्यातौ च वेदे च’ इति विश्वः । अत्र चत्वारो यमादयो लोकपालाः, इदानीं भवान् पञ्चमो लोकपालशब्दवाच्य इति यमादिसमानताख्यापनेनोत्कृष्टसाम्यकथनाद्राज्ञः स्तुतिः । सा तु प्रतीयमानतुल्यगुणेनैव ॥

प्रतीयमानतुल्यगुणत्व एव निन्दार्था यथा—

‘राजानमपि सेवन्ते विषमप्युपभुञ्जते ।
रमन्ते च परस्त्रीभिर्विषमाः171 खलु मानवाः ॥ १२० ॥’

अत्र योऽयं सेवादिर्मानवानां राजविषये स्त्रीषु च वैषम्यहेतुतुल्यत्वेन योगो राजादीनां वा 172कर्मादितुल्यतया तत्क्रियायां समावेशः सोऽमीषां मिथः सादृश्यं प्रत्याययन् राजसेवापरस्त्रीरत्योर्विषोपभोगतुल्यतां गमयतीति सेयं प्रतीयमानतुल्यगुणत्वे निन्दर्था तुल्ययोगिता ॥

राजानमित्यादि । भूपमपि सेवन्ते, विषमप्युपभुञ्जते खादन्ति, अन्यस्त्रीभिः सह रमन्ते विलसन्ति । अतो मनुष्या विषमाः साहसिकाः । खलु हेतौ । अत्र विषमतायां वा तुल्ययोगस्तत्क्रियाविषयतया वा राजसेवापरस्त्रीरत्योर्विषोपमोगतुल्यतां बोधयति स च प्रतीयमान एव ॥

मतान्तरेण तुल्ययोगितामाह—

अन्ये सुखनिमित्ते च दुःखहेतौ च वस्तुनि ।
स्तुतिनिन्दार्थमेवाहुस्तुल्यत्वे तुल्ययोगिताम् ॥ ५५ ॥

अन्ये इति । सुखहेतुदुःखहेतुवस्तुनोः स्तुतिनिन्दार्यं साम्ये तुल्ययोगितामन्ये प्राहुः ॥

  1. ‘रहो साहसिका नराः’ इति पाठः
  2. ‘कर्मत्वादिरूपस्य’ इति क ख