481 ‘कृताभिषेका महिषी’ इत्यमरः । अत्र महिषीवृद्धापदयोर्व्याजात् कपटान्निन्दास्तुतिर्लेशत एव ॥ इति लेशालंकारनिरूपणम् ॥

सहोक्त्यलंकारनिरूपणम् ।

सहोक्तिलक्षणमाह—

कर्त्रादीनां समावेशः सहान्यैर्यः क्रियादिषु ।
विविक्तश्चाविविक्तश्च सहोक्तः सा निगद्यते ॥ ५७ ॥
वैसादृश्यवती चेयमुच्यमाना मनीषिभिः ।
सहेवादिप्रयोगेषु ससादृश्या च दृश्यते ॥ ५८ ॥

कर्त्रेति । क्रियादिषु कर्त्रादीनामन्यैः सह यः समावेशोऽवस्थानं सा सहोक्तिः । आदिपदात्कर्मादिपरिग्रहः । स समावेशो विविक्तः केवलः, अविविक्तो मिश्रः ॥

सा कर्तृविविक्तक्रियासमावेशे यथा—

‘कोकिलालापमधुराः सुगन्धिवनवायवः ।
यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः ॥ १२९ ॥’

अत्र सुरभिवासरा इति कर्तृपदार्थः केवल एव जनानन्दैः सह वृद्धिप्राप्तिक्रियायां समाविष्ट इति सेयं विविक्तकर्तृक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः ॥

कोकिलेत्यादि । सुरभिवासरा वसन्तदिवसाः जनहर्षैः सह वृद्धिं यान्ति । कीदृशाः । कोकिलालापो मधुरो मनोहरो येषु ते, सुगन्धयः शोभनगन्धवन्तो वनवायवो मलयानिला येषु ते । अत्र केवलस्य कर्तुर्वसन्तदिनस्य जनानन्दैः सह वृद्धिप्राप्तिक्रियासमावेशः । स च विसदृश एव । दिनवृद्धेर्दण्डाधिक्यरूपत्वात्, आनन्दवृद्धेरतिसुखरूपत्वात् ॥

कर्मणो विविक्तक्रियासमावेशे यथा—

‘उज्झसि पिआइ समअं तह वि हु रे भणसि कीस किसिअं त्ति ।
उवरिभरेण अ अण्णुअ मुअइ वइल्लो वि अङ्गइं ॥ १३० ॥’
[उह्यसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति ।
उपरिभरेण च हे अज्ञ मुञ्चति वृषभोऽप्यङ्गानि ॥]