406

यथा—

‘न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
न केसराणि कान्ताया इमास्ता दन्तपङ्क्तयः ॥ १० ॥’

अत्र कान्तामुखादावुपमेये पद्मादिविपर्ययज्ञानप्रत्याख्यानेनेवादीनामभावेऽपि कान्त्यादिलुप्तधर्मप्रतीतेर्लुप्तानामेयं पदार्थोपमासु वाक्योपमाभक्तिः ॥

लोपे सामान्यधर्मस्य लुप्तपूर्णेति गद्यते ।

नेत्यादि । इदं न पद्मं किंतु कान्ताया मुखमेव । न भ्रमरौ किंतु इमे नेत्रे । न केसराणि किंतु इमास्ताः प्रसिद्धा दन्तपङ्क्तय एव । चक्षुषी इमे ‘ईदूदेव्द्दिवचनं प्रगृह्यम् १।१।११’ इति प्रगृह्यत्वम् । पद्ममिदं कान्तास्यमिति मिथ्याज्ञानं तस्य प्रत्याख्यानं निषेधो न पद्ममिति । एवंचेवाद्यभावेऽपि कान्त्यादेः प्रसिध्द्यैव प्रतीतेरियं लुप्ता ॥

यथा—

‘राजीवमिव ते वक्रं नेत्रे नीलोत्पले इव ।
रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ ॥ ११ ॥’

अत्र सामान्यधर्मे लुप्ते प्रतीयमानसादृश्यत्वेन पदार्थयोरुपमानोपमेयभावस्य परिपूर्णत्वे लुप्तपूर्णानामेयं पदार्थोपमासु वाक्योपमाभक्तिः ॥

राजीवमित्यादि । हे प्रिये, तव मुखं पद्ममिव, नेत्रे नीलनलिने इव, ऊरू कदलीस्तम्भाविव, स्तनौ हस्तिकुम्भाविव स्तः । उत्पले इवेति ‘ईदूदेद् १।१।११’ इति प्रगृह्यसंज्ञा । इह सामान्यधर्मस्य कान्त्यादेर्लोपः, इतरेषां पूर्णतेति लुप्तपूर्णा ॥ ११ ॥

द्योतकस्य तु लोपे या पूर्णलुप्तेति सा स्मृता ॥ १७ ॥

यथा—

‘त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी ।
कोमलापाटलौ तन्वि पल्लवश्चाधरश्च ते ॥ १२ ॥’