धीरेणेत्यादि । "धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः । उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्या उल्लापाः ॥" अस्य रामस्य धैर्येण समं यामा रात्रिप्रहरा गलन्ति । हृदयेन सममनिष्ठिता अनिर्व्यूढा अनिश्चिता वा उपदेशा गलन्ति । उत्साहेन सह भुजा बाहवो गलन्ति । बाष्पेण सममुल्लापा आलापा वचनानि गलन्ति । धैर्यविगमानुचिते सदुपदेशावस्थितिः । ततो मनःशून्यता, तत उत्साहत्यागः, ततो भुजस्खलनम्, ततोऽश्रुणा सह वचनतेति क्रमेणाधिकार्तितो मन्मथदशाधिक्यमुक्तम् । उत्साहोऽध्यवसायः । अत्र गलनक्रियाया एकत्वेनाविविक्तता । वैसादृश्यं च व्यक्तमेव ॥