अनुभयेति । यत्र द्विपदे बहुपदे वा चकारो नास्ति समुच्चयोऽन्वाचयोऽपि न भवति । दीपकलक्षणेन तस्य विषयीकरणादेकत्रवर्तिना क्रियादिवाचकपदेन सर्ववाक्योपकारकत्वस्य दीपकत्वात्, तादृशसमुच्चयान्वाचययोश्च तत्सत्त्वादित्याशयः ॥ सावशेषेत्यादि ।आसां स्त्रीणामेतानि मदविभ्रमं मत्तताविलासं द्योतयन्ति स्म । तान्याह —सहावशेषैरवशिष्टभागैर्वर्तते सावशेषं सखण्डं पदं यत्रेदृशमुक्तं वचनम् । खण्डाक्षरवचनमित्यर्थः । स्रस्तानि स्खलितानि यानि मालावस्त्रालंकरणानि तेषूपेक्षा असंवरणम् । अकारणतो हेतुं विनैव गन्तुं गमनं कर्तुमुत्थितमुत्थान च । उक्तमिति भावे क्तः । उत्थितमित्यपि भावे क्तः । अकारणत इति पञ्चम्यास्तसिः । अत्रोक्तादेर्वचनादिरूपक्रियात्मकस्य तदाश्रयस्य द्रव्यस्य मिथो योगेन प्रधानक्रियायां निवेशः । अत एव द्योतयन्तीति बहुवचनम् । समुच्चयस्वीकारे दोषमाह—द्वन्द्वेति ॥