490

अत्र ‘यद्वरेषु मृग्यते तत्किं त्रिलोचने व्यस्तमप्यस्ति’ इति ब्रुवन् वपुर्वयोवसूनां समुदायं समस्तमेवाभिसंधत्ते । तस्य चाविर्भूतावयवभेदत्वेनेतरेतरयोगः, तिरोहितावयवभेदत्वेन समाहारः । स इह यदित्येकवचनान्तेन नपुंसकेन च कथ्यते । न चेह क्वचिदपि चकारोऽस्तीति सोऽयमप्यनुभयाश्रयः समुच्चयमेदः ॥

वपुरित्यादि । हे बालमृगाक्षि शिशुहरिणनेत्रे गौरि, वरेषु यन्मृग्यतेऽन्विष्यते तत्त्रिलोचने शिवे व्यस्तमप्येकैकमप्यस्ति किम् । किंतु नास्त्येव । तदाह—वपुः शरीरं विरूपमक्षि यत्र तादृशं विरूपं विरूद्धस्वरूपम् । नेत्रे द्वित्वसंबन्धस्याविरुद्धत्वात्, त्रित्वस्य विरुद्धत्वात् । अलक्ष्यमलक्षणीयं जन्म उत्पत्तिः कुलमिति यावत् । यस्य सोऽलक्ष्यजन्मा तस्य भावोऽलक्ष्यजन्मता । अकुलीनतेत्यर्थः । दिश एवाम्बरं यस्य तद्भावेन वसु धनं निवेदितं कथितम् । ‘नग्नोऽवासा दिगम्बरः’ इत्यमरः । भृग्यत इति मृग अन्वेषणे कर्मणि लकारः । अत्र वपुरादिसमुच्चये यदा स्फुटावयवभेदतां तदेतरेतरयोगः । यदा तु तिरोहितावयवभेदता तदा समाहारः । यदित्येकत्वक्लीबत्वाभ्यामिह समाहार एवोक्तः । चकारयोगेऽपीतरेतरयोगमाह—न चेति ॥

चयोगेऽपीतरेतरयोगः । स उत्तरपदयोगेऽपि यथा—

‘तत्क्षणं विपरिवर्तिताह्रियोर्नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी द्व्योः शूलिनः सुवदना मदस्य च ॥ १४३ ॥’

अत्र शूलिनो मदस्य चेत्यत्तरपदाश्रयेण चकारेण द्वौ द्रव्यविशेषौ ‘वशवर्तिनी’ इत्येतस्मिन् गुणपदे यदीतरेतरयोगेन संनिवेश्येते तदा ‘विपरिवर्तितह्रियोः’ इत्यादिषु ‘द्व्योः’ इतिपर्यन्तेषु द्विवचनमेकशेषो वा न स्यात् । सोऽयमपि द्विपदाश्रय उत्तरपदाश्रितद्योतकश्च समुच्चयभेदः ॥

तत्क्षणमित्यादि । सा सुवदना गौरी शूलिनो हरस्य मदस्य मत्ततायाश्च द्व्योर्वशवर्तिनी आयत्ता बभूव । द्व्योः कीदृशयोः । तत्कालं विपरिवर्तिता विगता ह्रीर्लज्जा ययोस्तयोः । इद्ध उपचितो रागो ययोस्तयोः । अत एव शयनं नेष्यतोः शव्यां नेच्छतोः । अत्र शूलिमदयोर्वशवर्तित्व इतरेतरयोगेन संनिवेशे दोषमाह—