495

मिश्रो यथा—

‘सच्चं गुरुओ गिरिणो को भणइ जलासआ ण गम्भीरा ।
धीरेहिं उवम माउं तह वि खु मह णत्थि उच्छाहो ॥ १५० ॥’
[सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः ।
धीरैरुपमातुं तथापि खलु मम नास्त्युत्साहः ॥]

अत्र ‘सत्यं गुरवो गिरयः’ इति विधिः, ‘क आह जलाशया न गम्भीराः’ इति परमताक्षेपस्ताभ्यां गिरीणां गुरुत्वम् सागराणां च गाम्भीर्यं यदयमुत्तरार्धेन धीरापेक्षया निषेधति, अन्यापेक्षया तत्तदेव विधत्ते; स एष मिश्रो निषेधाक्षेपः ॥

सच्चमित्यादि । ‘सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः । धीरैरुपमातुं तथापि मम नास्त्युत्साहः ॥’ इह पर्वता निश्चितं गुरुत्वाश्रयाः । को वदति जलाशयाः सागरा न गम्भीराः किंतु गम्भीरा एव । गिरिसागरौ धीरैः सहोपमातुं सदृशीकर्तुं तथापि मम नोत्साहोऽस्ति धीराणां तयोराधिक्यात् । ‘जलाशयो जलाधारः’ इति कोषाद्यद्यपि जलाशयपदं जलाधारमात्रार्थकं तथाप्यतिगाम्भीर्ययोग्यतया सागरपरम् । अत्र विधिनिषेधाभ्यां गुरुत्वगाम्भीर्यनिषेधोऽन्यापेक्षया विधिश्चेति मिश्रता ॥

'रोधो नाक्षेपतः पृथक्’ इति यदुक्तं तत्रैतावान्विशेषः—

क्रियासूत्तिष्ठमानस्य वारणं कारणेन यत् ।
उक्त्या युक्त्या च रोधो य आक्षेपः सोऽयमुच्यते ॥ ६५ ॥
प्रतिकूलोऽनुकूलश्च विधौ रोधोऽभिधीयते ।
निषेधेऽप्युक्तियुक्तिभ्यां द्विप्रकारः स कथ्यते ॥ ६६ ॥

रोधे विशेषमाह—क्रियास्विति । क्रियासूद्योगिनां हेतुद्वारा यन्निवारणमुक्त्या युक्त्या च स रोधः । स च शेषीभूत आक्षेप एव । विधिनिषेधयोगित्वमथाक्षेपसाधारण्यम् ॥ ६५ ॥ ६६ ॥