496

तत्रोक्त्या विधौ प्रतिकूलो यथा—

‘किं जम्पिएण दहमुह जम्पिअसरिसं अणिव्वहन्तस्स भरम् ।
एत्तिअ जम्पिअसारं णिहणं अण्णे वि वज्जधारासु वआ ॥ १५१’
[किं जल्पितेन दशमुख जल्पितसदृशमनिर्वाहयतो भरम् ।
एतावद जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः ॥]

अत्र ‘किमः’ प्रतिकुलवाचित्वाद् वचनवृत्त्यैव जल्पन् दशाननश्चित्ररथेन रुद्धः, कारणं च वज्रप्रभावकीर्तनादिति प्रातिकूल्येनोपन्यस्तम्; सोऽयमौक्तः प्रतिकूलश्च विध्याक्षेपो रोध इत्युच्यते ॥

किमित्यादि । "किं जल्पितेन दशमुख जल्पिसदृशमनिर्वाहयतो भरम् । एतावद् जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः ॥" इह हे दशमुख रावण, जल्पितेन भाषितेन किम् । किंतु न किमपि । कस्य, उक्तिसदृशं भरमनिर्वाहयतः पुंसः । भरमध्यवसायम् । एतावदेतदेव जल्पितसारं श्रेष्ठम् यदन्येऽपि योधा वज्रधारसु निधनं नाशं गताः । ‘श्रेष्ठेऽर्थवत्सारमुदहरन्ति’ इति शाश्वतः । अत्र जल्पन् रावणश्चित्ररथेन वज्रप्रभावकीर्तनरूपप्रतिकूलोक्त्या रूद्ध इति विध्याक्षेपविरोधः ॥

उक्त्यैव विधावनुकूलो यथा—

‘हन्तुं विमग्गमाणो हन्तुं तुरिअस्स अप्पणा दहवअणम् ।
किं इच्छसि काउं जे पवअवइ पिअं ति विण्पिअं रहवइणो १५२’
[हन्तुं विमार्गमाणो हन्तुं त्वरितस्यात्मना दशवदनम् ।
किमिच्छसि कर्तुं यत्प्लवगपते प्रियमिति विप्रियं रघुपतेः ॥]

अत्रापि ‘किमः’ प्रतिषेधवाचित्वात् वचनवृत्त्यैव दशाननवधायोत्तिष्ठमानः सुग्रीवो जाम्बवता रुद्धः, कारणं पुनरानुकूल्येनैवोक्तम्—'किमेतत् त्वया रघुपतेः प्रियरूपं विप्रयमुपक्रान्तम्’ इति । सोऽयमौक्तोऽनुकूलश्च विध्याक्षेपो रोध इत्युच्यते ॥

हन्तुमित्यादि । "हन्तुं विमार्गमाणो हन्तुं त्वरितस्यात्मना दशवदनम् । किमिच्छसि कर्तुं प्लवगपतेऽस्य प्रियमिति विप्रियं रघुपतेः ॥" इह हे प्लवगपते सुग्रीव, दशवदनं हन्तुं विमार्गमाणो याचमानस्त्वं रघुपते रामस्य किं प्रियमिति कृत्वा