अत्रापि प्रियतमेन स्वयं कान्ताहृदये समारोपितायाः स्रजः प्रेम-502 कारणमुपन्यस्य जलाविलदोषवत्या अपि स्रजो यदत्यागकारणं तदिह वैधर्म्यद्वारेण प्रतिपादितमतो वैधर्म्येणायमर्थान्तरन्यासः ॥