503

तेषूभयन्यासो यथा—

‘ते विरला सप्पुरिसा जे अभणन्ता घडन्ति कज्जालावे ।
थोअच्चिअ ते वि दुमा जे अमुणिअकुसुमणिग्गमा देन्ति फलम् ॥’
[ते विरलाः सत्पुरुषा येऽभण्यमाना घटन्ते कार्यालापम् ।
स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम् ॥]

अत्र विद्यमानमपि साध्यसाधनभावमप्रतिपाद्य यदुभयोर्वस्तुनोर्न्यसनं सोऽयमुभयन्यासः ॥

ते विरला इत्यादि । “ते विरलाः सत्पुरुषा येऽभण्यमाना घटन्ते कार्यालापम् । स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम् ॥” इह ते सज्जना विरलाः परिमिताः । अल्पा इति यावत् । ये कार्यार्थमालापमाज्ञामभण्यमाना घटन्ते कार्यारूढा भवन्ति, तेऽपि वृक्षाः स्तोका एवाल्पा एव येऽज्ञातपुष्पोद्गमाः सन्तः फलं ददति । अभण्यमाना इति णिज्गर्भत्वेन द्विकर्मकता । यद्वा कार्यालापे कार्यकरणे घटन्ते । कीदृशाः । अभण्यमाना अनुक्ताः । ‘आलापो वचने कृतौ’ इति शाश्वतः । अत्र हेतुहेतुमद्भावपुरस्कारेणोभयोरुपन्यासः ॥

प्रत्यनीकन्यासो यथा—

‘विरला उवआरिच्चिअ णिरवेक्खा जलहरव्व वट्टन्ति ।
झिज्जन्ति ताण विरहे विरलच्चिअ सरिप्पवाहव्व ॥ १६३ ॥
[विरला उपकृत्यैव निरपेक्षा जलधरा इव वर्तन्ते ।
क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव ॥]

अत्र यदिदमुपकृत्यानपेक्षितप्रत्युपकाराणां गमनम्, यच्चाकृतप्रत्युपकाराणां तद्विरहेऽवसादनं तदुभयमपि जलधरसरित्प्रवाहयोरन्योन्यातिशयितयोरुपन्यस्यमानं प्रत्यनीकन्यासो भवति ॥

विरला इत्यादि । “विरला उपकृत्यैव निरपैक्षा जलधरा इव वर्तन्ते । क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव ॥” इह ये उपकृत्य उपकारं कृत्वा निरपेक्षाः प्रत्युपकारानपेक्षा वर्तन्ते ते विरला अल्पाः । मेघा इव । यथा मेधा उपकारं कृत्वा प्रत्युपकारनिस्पृहा वर्तन्ते तथेत्यर्थः । तेषामुपकारिणां विरहे विरला एव