504 क्षीयन्ते दुःखिता भवन्ति । नदीप्रवाहा इव । यथा नदीप्रवाहा उपकारिणां मेघानां विरहे क्षीणा भवन्ति तथेत्यर्थः । क्षीयन्त इति कर्मकर्तरि । क्षियोऽनात्मनेपदित्वात् । अवसदनमवसादः । भावे घञ् । अत्र मेघनदीप्रवाहयोर्मिथः समर्थयोः प्रत्यनीकभावः प्रतिपक्षता । प्रतिनिधिभूतमनीकं सैन्यं यस्य सः प्रत्यनीकः परिपन्थी । 'प्रति प्रतिनिधौ चिह्ने’ इति मेदिनीकारः । ‘अनीकोऽस्त्री रणे सैन्ये’ इति च ॥

प्रतीकन्यासो यथा—

‘का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ १६४ ॥’

अत्र विघ्नप्रोत्सारणसमर्थाया बाणमोक्षलक्षणायाः क्रियायाः प्रथमावयवभूतं ज्याशब्दं धनुषो हुंकारमिवेति तत्साधनमुपन्यस्य प्रतीकन्यासनामानमर्थान्तरन्यासमभिधत्ते ॥

का कथेत्यादि । बाणसंधाने धनुषि बाणारोपणे तस्य का कथा । तेन सर्वसिद्धेः । यतः स राजा दूरात् ज्याशब्देनैव विघ्नान्यपोहति वारयति । ज्याशब्देन कीदृशेन । धनुषो हुंकारेणेव । चापस्य हुंकारतुल्येनेत्यर्थः । दूरत इति पञ्चम्यां तसिः ॥ विघ्नानीति । यद्यपि ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यमराद्विघ्नशब्दे पुंस्त्वम्, तथापि ‘लिङ्गमशिष्यं लोकाश्रयत्वात्’ इति नपुंसकत्वमपि । अत एव ‘अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्’ इति रघुप्रयोगोऽपि । ‘स हि विघ्नानपोहती’ ति वा पाठः कर्तव्यः । अत्र ज्याशब्दस्य चापैकदेशस्य न्यसनात्प्रतीकन्यासता ॥ इत्यर्थान्तरन्यासालंकारनिरूपणम् ॥

विशेषालंकारनिरूपणम् ।

विशेषोक्तिलक्षणमाह—

गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् ।
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥ ७० ॥
प्रत्येतव्येऽभिधेये च सा विशेषस्य कारणे ।
वैकल्यादर्शनेनापि क्वचिदप्युपपद्यते ॥ ७१ ॥

गुणेति । विशेषदर्शनायाधिक्यख्यापनार्थं गुणादीनां मध्ये यत्तेषां वैकल्यदर्शनं विकलत्वाभिधानं सा विशेषोक्तिः । एकगुणहानिकल्पनया शेषगुणे दार्ढ्यं