506

अत्र 176भ्रूभङ्गादेरभावेऽपि योऽयं द्विषतां जयस्तेन वर्णनीयस्य प्रतापातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुः क्रियावैकल्यवती विशेषोक्तिः ॥

न बद्धेत्यादि । भ्रूभङ्गो न बद्धः, अधरोऽपि न स्फुरितः, दृष्टिरपि न रक्ता वृत्ता, तथापि वीर, त्वया द्विषतां शत्रूणां कुलं जितम् । अत्र भ्रुकुटीत्यादिक्रियानिषेधात्क्रियावैकल्यम् । अतिशयस्तु लीलया शत्रुजयः ॥

आदिग्रहणाद्द्रव्यवैकल्येन यथा—

‘न रथा न च मातङ्गा न हया न च पत्तयः ।
स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥ १६८ ॥’

अत्र रथादेरभावेऽपि जगत्त्रयविजयहेतुः स्त्रीणामपाङ्गावलोकनमभिधीयते; सेयमभिधेयविशेषहेतुर्द्रव्यवैकल्यवती विशेषोक्तिः ॥

न रथा इत्यादि । न रथा न च हस्तिनो नाश्वा न वा पदातयः सन्ति तथापि स्त्रीणामपाङ्गदृष्ट्यैव कटाक्षेणैव लोकत्रयं जीयते । ‘हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्ट्यम् ।’ इत्यमरः । तदिह सेनाङ्गनिषेधाद्द्रव्यवैकल्यम्, अतिशयस्तु तदभावेऽपि त्रिभुवनजयः । द्रव्यस्यापि वैकल्येनैकदेशविकलतया अपरा विशेषोक्तिः । प्रथमा द्रव्यवैकल्यवती, इयं तु द्रव्यैकदेशवैकल्यवतीति भेदः ॥

द्रव्यस्यापि वैकल्येन यथा—

‘एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजखी तथाप्यर्को जगत्त्रयम् ॥ १६९ ॥’

अत्र रथादीनां द्रव्याणामेकचक्रत्वादिभिर्वैकल्येऽपि यदेतद्भगवतो भास्करस्य भुवनत्रयाक्रमणं तस्येह तेजस्विता हेतुरभिधीयते; सेयमभिधेयविशेषहेतुर्वैकल्यवद्द्रव्या नामापरा विशेषोक्तिः ॥

एकेत्यादि । रथस्यैकं चक्रम्, यन्ता सारथिरनूरुर्विकलश्चरणहीनः, अश्वा

  1. ‘भ्रुकुटिभङ्गादेः’ इति क-पुस्तके पाठः