पर्वतेत्यादि । इयं पयोष्णी नदीभेदः पयो जलं वहति तत्पश्यत । वाक्यार्थस्यैव वा कर्मता । पयः कीदृशम् । पर्वतस्याद्रेर्भेदनशीलम् । अद्रिं भित्त्वा वहनात् । पवित्रं पुण्यहेतुकम् । नरकस्य निरयस्य जैत्रमत एव बहुमतमनेकसंमतं गहनमगाधम् । हरिरिन्द्रस्तमिव । इन्द्रं कीदृशम् । ‘अद्रिपक्षस्य छेद्यत्वेन पर्वतभेदी पविना वज्रेण त्रायते ‘अन्यत्रापि दृश्यते’ इति त्रः पवित्रः । पश्चात्कर्मधारयः । 523 यद्वा पर्वतभेदिना पविना त्रायते इति पर्वतभेदिपवित्रस्तम् । हे नर नल इति संबोध्रनम् । रलयोरेकत्र स्मरणात् । कस्य बहुमतमीषन्मतं जैत्रं किंतु सर्वस्यैव संपूर्णमेव स्वीकृतम् । बहुमतमितीषदसमाप्तौ बहुच् । स चादौ भवति ‘विभाषा सुपो बहुच् पुरस्तात्तु ५।३।६८’ इति सूत्रेण । गहनं कठोरम् । हरिः सिंहस्तमिव पर्वतस्य । भिद्यत इति भेदो विवरम् । गुहेति यावत् । तत्संबद्धं तच्छायित्वात् । पवित्रं श्वेतं नरकस्य प्रशस्तपुंसोऽपि जेतारम् । बहुर्बहुमानविषयो मतङ्गो मुनिभेदो येषां ते बहुमतङ्गा हस्तिनस्तेषां पितृत्वेन तस्य पूज्यत्वात् तान् हन्ति तम् । हरिर्विष्णुस्तमिव । पर्वतस्य गोवर्धनस्य भेदकमुत्थापकत्वात् । पवेर्वज्रात् त्रः त्राणं यस्मात्तत् । विष्णुस्मरणस्य तदपि फलम् । नरकस्य दैत्यभेदस्य जैत्रम् । बहुमतङ्गान् हिंस्त्रान् हन्ति यस्तम् । हरिर्वायुस्तमिव सोऽप्यतिवेगित्वादद्रिभेदी, पवित्रः पवनत्वात् । अत एव नरकस्य कश्मलस्य निवारकः । बहूनां वातयोगिनां स्वीकृतः गहनः कष्टेन परिचेयश्च भवति । ‘इन्द्रे सिंहेऽनिले विष्णौ हरिः शमनसूर्ययोः ।’ इति शाश्वतः198 । अत्र हरिमिवेत्यादिशब्दरूपैकावल्या विशेषणत्वेन पयोरूपस्य कर्मकारकस्य परिष्कारः ॥

  1. शाश्वतकोषे तु ‘इन्द्रचन्द्राश्ववातार्कशुकभेकयमाहिषु । कपौ सिंहे सुवर्णाभे वर्णे विष्णौ हरिं विदुः ॥’ इति विद्यते ।