524 किम्, कपोलयोः पत्रावल्योऽद्याधुना किं नैव लिखिताः । खलुशब्दोऽवधारणे वाक्यभूषायां वा । अत्रायमिति सर्वनामोपस्थापितयार्थैकावल्या तुल्ययैव परिच्छदरूपस्य कर्तृकारकस्य परिष्कारः ॥

उभयैकावली यथा—

‘अम्बा तुष्यति न मया स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥ १९४ ॥’

अत्राम्बास्नुषास्मदर्थलक्षणैरर्थैस्तद्वाचिभिः सर्वनामभिः शब्दैरेकावलीक्रमेण मिथोऽनुस्यूतैर्मिथोऽनुस्यूत एव ‘तुष्यति’ इति क्रियाहेतुर्मयेत्यादिभिः परिष्क्रियते; सेयमुभयग्रथितत्वादुभयैकावली परिकरस्यैव भेदः ॥

अम्बेत्यादि । अम्बा माता न मया तुष्यति तुष्टा भवति । न स्नुषया पुत्रवध्वा तुष्यति । सापि स्नुषा नाम्बया न मया च तुष्यति । अहमपि न तयाम्बया न तया स्नुषया च तुष्यामि । हे राजन्, कस्य दोषोऽयमिति वद । वदेत्यत्र वाक्यार्थस्यैव कर्मता । ‘अम्बा माताम्बिकापि च’ इति रत्नकोषः । ‘समाः स्नुषाजनीवध्वः’ इत्यमरः । अत्राम्बाद्यर्थैस्तद्वाचकशब्दैश्च मयेत्यादेः परिष्कारः ॥ इति परिकरालंकारनिरूपणम् ॥

दीपकालंकारनिरूपणम् ।

दीपकं लक्षयति—

क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना ।
सर्ववाक्योपकारश्चेद्दीपकं तन्निगद्यते ॥ ७७ ॥
अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरावली ।
संपुटं रसना माला चक्रवालं च तद्भिदाः ॥ ७८ ॥

क्रियेत्यादि । एकत्र स्थितेन जात्यादिवाचिना पदेन यदि सर्ववाक्योपकारः क्रियते तदा दीपकम् । दीपयतीति दीपकमित्यन्वर्थं नाम । अष्टधा तदित्याह—अर्थेति । तस्य दीपकस्य भिदा भेदाः ॥