527

पदावृत्तिर्यथा—

‘उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् ।
यूनामुत्कण्ठयत्यद्य मानसं मकरध्वजः ॥ २०० ॥’

अत्रोग्द्रीवं करोति, उत्कण्ठावन्तं करोतीत्यर्थयोः ‘उत्कण्ठयति’ इति पदमावर्त्यमानं वाक्यद्वयमपि दीपयति; सेयं पदावृत्तिर्दीपकस्य भेदः ॥

उत्कण्ठ्यतीत्यादि । मेघानां पङ्क्तिः, मयूराणां वृन्दं समूहमुत्कण्ठययत्युग्द्रीवयति । अद्येदानीं कामश्च यूनां चित्तमुत्कण्ठयत्युत्सुकयति । अत्रोत्कण्ठयतीति पदमावर्त्यमानं वाक्यद्वयदीपकम् ॥

उभयावृत्तिर्यथा—

‘जय देव भुवनभावन जय भगवन्निखिलवरद निगमनिधे ।
जय रुचिरचन्द्रशेखर जय मदनान्तक जयादिगुरो ॥ २०१ ॥’

अत्र जयेत्यर्थः शब्दश्चावर्त्यमानः सर्ववाक्यानि दीपयति; सेयमुभयावृत्तिर्दीपकस्य भेदः ॥

जयेत्यादि । हे देव महादेव, भुवनस्य जगतो भावन जनक, जय । हे भगवन्नखिलेषु जनेषु वरप्रद, निगमस्य201 वेदस्य निधे आश्रय, जय । रम्यचन्द्रचूड, जय । मदननाशक, जय प्रथमगुरो, जय । ‘निगमो नगरे वेदे’ इति मेदिनीकारः । अत्र जयशब्दस्तदर्थश्चावर्त्यमानः सर्ववाक्यदीपकः ॥

आवली यथा—

‘त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ २०२ ॥’

अत्र पूर्वार्धे त्वमिति शब्दार्थयोः प्रथमावृत्तिः प्रथमपादस्थया

  1. ‘निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे’ इति मेदिनी