412 आह—तथेति । उपमापङ्क्त्याङ्क्त्या चैकवाक्यताविधानेन शरदृतुवर्णनेन प्रकृतरूपेति भावः । (तुरीया चतुर्थी च, ‘तुरणमत्तावाद्यक्षरलोपश्च’ इति (?) छः ॥

इतीमास्ताश्चतस्रोऽपि रूपेण प्रकृतेन याः ।
उपमानां चतस्रोऽन्या विकृतेन प्रचक्ष्महे ॥ २२ ॥
विपर्यासोपमा तासु प्रथमाथोभयोपमा ।
अथोत्पाद्योपमा नाम तुरीयानन्वयोपमा ॥ २३ ॥

तासु विपर्यासोपमा यथा—

‘यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ २१ ॥’

अत्र नेत्रादीनामुपमेयत्वमिन्दीवरादीनामुपमानत्वमिति प्रसिद्धौ येयमत्यनुरागान्नेत्रादिष्वाधिक्यबुद्धिर्नात्यनुरागादिन्दीवरादिषु तदनुकारिबुद्धिस्तयेह रामेण विरहिणाभिधीयमानसादृश्यानाममीषां परस्परमुपमानोपमेयभावः प्रसिद्धेर्विपर्यासेन कल्पित इति सेयं विपर्यासोपमा नाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥

यदिति । हे प्रिये, मम त्वत्सादृश्यहर्षमात्रमपि न दैवेन क्षम्यते । यस्मात्तदिन्दीवरं जले मग्नम् । कीदृशम् । त्वन्नेत्रसमशोभम् । चन्द्रो मेघैरन्तरितश्छन्नः । कीदृशः । त्वन्मुखप्रतिबिम्बसदृशः । तेऽपि राजहंसा गताः । ये त्वद्गतितुल्यगमनाः इह प्रसिद्धिविपर्ययेणोपमितेर्विपर्यासोपमा ॥

उभयोपमा यथा—

‘तवाननमिवाम्भोजमम्भोजमिव ते मुखम् ।
निलीनां नलिनीखण्डे कथं नु त्वां लभेमहि ॥ २२ ॥’

अत्राप्यत्यन्तसादृश्यादेकस्मिन्पक्षे प्रसिद्धेर्विपर्यास इति सेयं प्रतीयमानसादृश्योभयोपमा नाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ।