तवेति । हे प्रिये, त्वां कथं नु लभेमहि । कीदृशीम् । पद्मिनीकदम्बे निलीनां स्थिताम् । मुखेनापि न लाभ इत्याह—तव मुखमिव पद्मम् पद्ममिव मुखम् । इह प्रथमपक्षे विपर्यासोऽथोभयोपमानोपमेयभावादुभयोपमेयम् ॥
उत्पाद्योपमा यथा—
अत्रोपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादृश्यमभिहितमिति सेयमुत्पाद्योपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥
उभाविति । उभावित्यादिविवृतोऽयं श्लेषगुणे । इह यद्येते पतेतामित्युपमानता तस्योत्पाद्यत इतीयमुत्पाद्योपमा । अनेकेषामुपमितेः प्रपञ्चोफ्मात्वम् ॥
अनन्वयोपमा यथा—
अत्र त्वमेवेदृशी नान्या त्वत्सदृशीत्यनन्वये सति उपमानोपमेयभावविवक्षयैकस्यापि वस्तुनो भेदमुपकल्प्य प्रतीयमानसादृश्यमौपम्येनाभिहितमिति सेयमनन्वयोपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥
त्वदित्यादि । विवृतोऽयं लाटानुप्रासे । इहान्या त्वत्सदृशी नेत्युपमानान्तरसंबन्धाभावोऽनन्वयः । तदुपमितिः कथं तस्या भेदगर्भत्वादत आह—एकस्यापीति । तथा चाभेदेऽपि भेदकल्पनाददोषः । औपम्येनोपमायाः, स्वार्थे कः ष्यञ् । इत्युपमालंकारनिरूपणम् ॥
रूपकालंकारनिरूपणम् ।
रूपकलक्षणमाह—
यदेति । यदोपमानपदानां पद्मादीनामुपमेयेषु मुखादिषु वृत्तिर्बोधकता भवे-