स्वामीत्यादि । को वा न, अपि तु सर्व एव । तदेवाह—दुर्नयस्य वारणे निवारणे व्यतिकर आसङ्गस्तत्र स्वामी प्रभुः । दुर्नयनिवारक इत्यर्थः । शौर्यस्योपदेशे गुरुरुपदेष्टा । विस्रम्भे हृदयं विश्वासपात्रम् । नियोग आज्ञा तत्काले दासः । भये आश्रयश्च । सप्तसमुद्रसीमान एव रशनादाम तच्चिह्निताया भूमेर्दाता । अहो आश्चर्यं सर्वाकारं यथा स्यादेवं स्वयंवरसुहृत् सहजमित्रं च, निरुपधित्वं स्वयंवरशब्दार्थः । हृदयमित्यजहल्लिङ्गतयान्वयः । ‘आज्ञा नियोग आदेशः’ इत्यमरः । इह विस्तरेण रूपितत्वान्मालारूपकम् ॥