398

इदानीमुभयालंकारविवेचनाय परिच्छेदमारभते—

शब्देभ्यो यः पदार्थेभ्य उपमादिः प्रतीयते ।
विशिष्टोऽर्थः कवीनां ता उभयालंक्रियाः प्रियाः136 ॥ १ ॥
उपमा रुपकं साम्यं संशयोक्तिरपह्नुतिः ।
समाध्युक्तिः समासोक्तिरुत्प्रेक्षाप्रस्तुतस्तुतिः ॥ २ ॥
सतुल्ययोगितोल्लेखः ससहोक्तिः समुच्चयः ।
साक्षेपोऽर्थान्तरन्यासः सविशेषा परिष्कृतिः ॥ ३ ॥
  1. ‘मताः’ इति ख पुस्तकस्थः पाठः