421 मिति गौणवृत्तिव्यपाश्रयः शब्द एव समस्तविशेषणैः परिष्क्रियते तथापि नन्दयतीति नन्दनमिति कृदभिहितक्रियासमावेशे मुखाख्यस्यैव वस्तुनः प्राधान्यमवगम्यते तस्य त्वपह्रियत इत्यर्थप्रधानमेवैतत् ॥

स्मितेत्यादि । हे सुभ्रु, तवेदं मुखं कस्य न नन्दनं हर्षजनकमपि तु सर्वस्यैव । नः शिरश्चालने । कीदृशम् । स्मितमेव पुष्पं तेनोज्ज्वलं दीप्तिमत् । लोलनेत्रे एव भृङ्गौ यत्र तत् । सुरभिः श्वासानिलो यत्र तत् । युक्तिर्योगः उपपत्तिश्चोभयमपि विवक्षितमिह । तथा हि पुष्पभ्रमरयोर्युक्तिर्योगः पुष्पैः सह भ्रमराणां मकरन्दपानकृतः संबन्धः । अत एवोपपद्यते पुष्पभ्रमरयोरेकत्रावस्थानम्, न हि पुष्पाणि भ्रमरैर्विना शोभन्त इति युक्तरूपकतेत्याशयवानाह—परस्परमिति । नन्दनमिव नन्दनमिति शब्दप्राधान्येऽपि नन्दयतीति नन्दनमिति कृदभिहितो भावो द्रव्यवत्प्रकाशत इति वचनादन्यप्राधान्यमेव विवक्षितमिति शङ्कोत्तराभ्याम् ॥

अयुक्तं यथा—

‘इदमार्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् ।
जगन्नेत्रेन्दुरस्माकं कथं तापाय कल्पते ॥ ३६ ॥’

अत्र ज्योत्स्नोत्पलयोरयोगाज्जगन्नेत्रेन्दोश्च मुखस्य संतापकारणमिदमयुक्तं नामाङ्गिप्रधानरूपकभेदेष्वर्थ भूयिष्ठरूपकभेदः । अत्रापि पूर्ववन्मुरवाख्यवस्तुनो विशेषणैः परिष्करणमिति तस्यैव प्राधान्यमवगम्यते ॥

इदमित्यादि। हे कान्ते, तवेदं मुखं जगन्नेत्राणामिन्दुरस्माकं तापाय कथं कल्पते शक्तो भवति । कीदृशम् । आर्द्रस्मितं सरसेषद्धास एव ज्योत्स्ना यत्र तत् । स्निग्धं नेत्रोत्पलं यत्र तत् । स्मितस्यार्द्रत्वेन स्नेहजनितता लक्ष्यते, कोपस्मितस्य सूक्ष्मत्वात् । इह ज्योत्स्नाया उत्पलस्य च सहानवस्थानं तच्च मिथोऽनुपकार्योपकारकभावादित्ययुक्तरूपकता । अर्थप्राधान्यं पूर्वोक्तयुक्त्यात्रापीत्याह—अत्रापीति ॥

अर्थभूयिष्ठरूपकेऽङ्गप्रधानं विभजते—

भेदानङ्गप्रधानस्य चतुरोऽवयवाश्रयान् ।
सहजाहार्यतद्योगतद्वैषम्यैः प्रचक्षते ॥ ३० ॥