424 स्मृतिरङ्कुरः, पुत्रमित्रभृत्यादयः किसलयाः, दाराणां पत्नीनां परिग्रहोऽनुरागः स्कन्धः, परिभवः पराभवः कुसुमम्, दुर्गतिर्नरकः फलम् । सर्वत्र यस्या इत्यन्वयः । ‘तरुप्रकाण्डे स्कन्धो ना’ इति विश्वः । ‘नरको निरयो दुर्गतिः स्त्रियाम्’ इत्यमरः । इह बीजादीनां सहजावयवता, अहंकृत्यादीनामाहार्यावयवता, तेषामेव च प्राधान्यं विवक्षितमित्युभयावयवप्रधानमिदम् । ध्रौव्यं नित्यता ॥

विषमावयवं यथा—

‘मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना ।
नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ॥ ४० ॥’

अत्रेन्दुना मुखावयवी रूपितः, भ्रुवौ च तदवयवौ लतावयविभ्याम्, मदरक्तौ तु कपोलौ न केनापीति सर्वतो वेषम्याद्विषमावयवं नाम रूपकमिदमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । अत्रापि मदरक्तनर्तितयोः कपोलभ्रुवोरेव मन्मथस्य जगत्रितयमर्दनक्रियायां प्राधान्यं साधकतमत्वमवगम्यते ॥

मदेत्यादि । हे प्रिये, त्वन्मुखेन्दुना मन्मथो भुवनत्रयं मर्दितुं जेतुमलं समर्थोऽस्ति । कीदृशेन । मदरक्तौ कपोलौ यत्र तेन । नर्तिते भ्रूलते येन तेन । इह मुखमवयवि चन्द्रत्वेन रूपितम्, भ्रुवौ चावयवौ लतात्वेन, गण्डस्तु न केनापीति वैषम्यम्, प्राधान्यं चावयवानामेवेति विषमावयवरूपकता ॥

शब्दार्थभूयिष्ठरूपके शुद्धरूपक विभजते—

आधारवन्निराधारं केवलं व्यतिरेकि च ।
इति शब्दार्थभूयिष्ठं शुद्धमाहुश्चतुर्विधम् ॥ ३१ ॥

तेष्वाधारवद्यथा—

‘सोहइ विसुद्धकिरणो गअणसमुद्दम्मि रअणिवेलालग्गो ।
तारामुत्तावअरो फुडविहडिअमेहसिप्पिसम्पुडविमुक्को ॥ ४१ ॥’
[शोभते विशुद्धकिरणो गगनसमुद्रे रजनीवेलालग्नः ।
तारामुक्ताप्रकरः स्फुटविघटितमेघशुक्तिसंपुटविमुक्तः ॥]

अत्र समुद्रत्वेन रूपितं गगनमाधारं परिकल्प्य रजनीमेघतारकौ-