424 स्मृतिरङ्कुरः, पुत्रमित्रभृत्यादयः किसलयाः, दाराणां पत्नीनां परिग्रहोऽनुरागः स्कन्धः, परिभवः पराभवः कुसुमम्, दुर्गतिर्नरकः फलम् । सर्वत्र यस्या इत्यन्वयः । ‘तरुप्रकाण्डे स्कन्धो ना’ इति विश्वः । ‘नरको निरयो दुर्गतिः स्त्रियाम्’ इत्यमरः । इह बीजादीनां सहजावयवता, अहंकृत्यादीनामाहार्यावयवता, तेषामेव च प्राधान्यं विवक्षितमित्युभयावयवप्रधानमिदम् । ध्रौव्यं नित्यता ॥
विषमावयवं यथा—
अत्रेन्दुना मुखावयवी रूपितः, भ्रुवौ च तदवयवौ लतावयविभ्याम्, मदरक्तौ तु कपोलौ न केनापीति सर्वतो वेषम्याद्विषमावयवं नाम रूपकमिदमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । अत्रापि मदरक्तनर्तितयोः कपोलभ्रुवोरेव मन्मथस्य जगत्रितयमर्दनक्रियायां प्राधान्यं साधकतमत्वमवगम्यते ॥
मदेत्यादि । हे प्रिये, त्वन्मुखेन्दुना मन्मथो भुवनत्रयं मर्दितुं जेतुमलं समर्थोऽस्ति । कीदृशेन । मदरक्तौ कपोलौ यत्र तेन । नर्तिते भ्रूलते येन तेन । इह मुखमवयवि चन्द्रत्वेन रूपितम्, भ्रुवौ चावयवौ लतात्वेन, गण्डस्तु न केनापीति वैषम्यम्, प्राधान्यं चावयवानामेवेति विषमावयवरूपकता ॥
शब्दार्थभूयिष्ठरूपके शुद्धरूपक विभजते—
तेष्वाधारवद्यथा—
अत्र समुद्रत्वेन रूपितं गगनमाधारं परिकल्प्य रजनीमेघतारकौ-