रत्तुप्पलेत्यादि । इह कथापि नायिकया लोचनाभ्यां चषके सुगन्धिमद्यभृते प्रतिमया प्रतिबिम्बेन पतिताभ्याम् । अत एव मदेनाताम्राभ्यामतिलोहिताभायां मनोज्ञा रक्तोत्पलदलस्य शोभा लघ्वीकृतात्यल्पा कृता । जितेति यावत् । ‘चषकं पानपात्रं स्यात्’ इति हारावली । ‘सुरा...वरुणात्मजा’ इत्यमरः । भरित इत्यत्र 439 बाहुलकात्पाक्षिक इडगमः । यद्वा भरितः संजातभरः । तारकादित्वादितच् । ‘प्रतिबिम्बं प्रतिमा’ इत्यमरः । अत्र नेत्रयोरुपमेययोर्मदताम्रत्वं वैकृत उत्कर्षः स्फुट एव ॥